#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00009 Uniform title: āṣṭaprakaraṇa ratnatrayaparīkṣā Main title: āṣṭaprakaraṇam ratnatrayaparīkṣā Secondary title: ratnatraya bhogakārikā nādakārikā mokṣakārikā paramokṣanirasakārikāḥ Author : śrīkaṇṭha Commentator : aghoraśiva Editor : kṛṣṇa śāstrī Description: E-text of the ratnatrayaparīkṣā from the ratnatraya bhogakārikā nādakārikā mokṣakārikā paramokṣanirasakārikāḥ in the devakottai series. Notes: Data-entered by the staff of Muktabodha under the supervision of Mark Dyczkowski. Revision 0: December 12, 2007 . Publisher : śivāgama siddhānta paripalana saṅgham Publication year : 1925 Publication city : Publication country : India #################################################### रत्नत्रयपरीक्षा श्रीकण्ठसूरिप्रणीता अघोरशिवाचार्यकृतरत्नत्रयोल्लेखिन्या समेता शिवं शिवकरं नत्वा सिद्धान्तार्थप्रकाशकम् | रत्नत्रयपरीक्षार्थः संक्षेपेण प्रकाश्यते || कैश्चिद् वेददृशाऽपरैः कुलधिया न्यायानुवृत्त्येतरै- रन्यैश्च स्वमनीषया मलिनितं मोहेन रत्नत्रयम् | तस्मात् कर्णविभूषणाय विदुषां भूयोऽपि सद्व्याक्रिया- शाणोल्लेखनसंस्कृतं तदधुना सोऽहं करोम्युज्ज्वलम् || नमः शिवाय शक्त्यै च बिन्दवे शाश्वताय च | गुरवे च गणेशाय कार्तिकेयाय धीमते || १ || अत्र च पूर्वार्द्धेन प्रकरणप्रतिपाद्यं रत्नत्रयं प्रस्तावयन् प्रणमति | उत्तरार्धेन सकलसंहितानामवतारकत्वेन गुरुं भगवन्तं श्रीकण्ठनाथं सर्वविघ्नापहं च गणपतिं सिद्धान्तशास्त्रश्रवणविशेषितज्ञानं च कार्तिकेयमस्यैवाविघ्नपरिसमाप्त्यर्थमभिवन्दते || १ || तदेव वस्तुत्रयं व्याख्येयतया प्रतिजानीते- बिन्दुशक्तिशिवाख्यानि त्रीणि सिद्धान्तसागरात् | समुद्धृत्य सतां धर्तुं हृत्कण्ठश्रवणे सदा || २ || कर्णयोः श्रवणेन, कण्ठोपलक्षितवागिन्द्रिये पाठेन, हृद्यवधानेन सतां धर्तुं बिन्द्वादीनि रत्नानि सिद्धान्तसमुद्रादुद्धृत्य || २ || रत्नानि वाङ्मयैः सुत्रैर्निबध्यन्ते मया ततः | क्षन्तुमर्हन्ति तत्सन्तो नासूया परिचारके || ३ || वाङ्मयैः सूत्रैर्मया निबद्ध्यन्ते | लोके हि कर्णाद्यवयवेषु धारणार्थं रत्नानि सूत्रैर्बद्ध्यन्ते | तस्मात् सदाराधनप्रवृत्ते मययसूया न कर्तव्येति || ३ || एषां च बिन्द्वादीनां रत्नसाधर्म्याद् रत्नशब्दवाच्यत्वमित्याह- रञ्जनात् सर्वतत्त्वेषु रागादेभ्योऽधिकारयोः | ईश्वराणां शिवानां च धारणीयतया धिया || ४ || पुंसामप्रतिघोदारमरीचिनिचयेन च | रत्नानीष्टविधानाच्च बिन्द्वाद्याः शिवशासने || ५ || रत्नानि यथा लोके राजन्ते महार्घतया प्रकाशन्ते, समीपवर्तिनां च रागमुत्पादयन्ति, पुरुषैश्चावयवैर्धार्यन्ते, दीप्तिमन्तीष्टविधायीनि च भवन्ति; यथा बिन्द्वादयः पदार्थाः सर्वेषु शक्त्यादिषु तत्त्वेषूपादानतयाऽधिष्ठातृत्वेन च प्रकाशन्ते, ईश्वराणामनन्तादीनां शिवानां च सदाशिवादिपदस्थानामात्मनामेभ्यो हेतुभूतेभ्यो यथास्वमधिकारयोरनुग्राह्यानुग्राहकत्वरूपयोः सदा रागो भवति, पुरुषाणां चैते धिया ध्येयतया धार्यन्ते, अप्रतिहतविलक्षणतेजसो भुक्तिमुक्त्याख्याभीष्टप्रदायिनश्च भवन्ति | तस्मादेतेऽपि शिवशास्त्रे रत्नानि, प्रोच्यन्त इत्यध्याहारः | अप्रतिहतविलक्षणतेजस्तया चैषामतिशयं दर्शितम् || ४-५ || रत्नत्रयं समाश्रित्य वर्तते तत्त्वसंहतिः | अध्वैतत्प्राप्तये षोढा कर्ण्यते परमेष्ठिना || ६ || तत्र शुद्धतत्त्वसंहतिर्बिन्दुमुपादानत्वेन, शिवं कर्तृतया, शक्तिं च तत्करणतया संश्रित्य वर्तते, उपादानादि विना कार्योत्पत्त्यसंभवात् | अशुद्धायां च शिवशक्तो एव परम्परया कर्तृकरणे, बिन्दुश्च निवृत्त्यादिकलाद्वारेणाधार इति वक्ष्यामः | अत्र बुभुक्षूणां भौतिकदीक्षाभाजां साधकानां विचित्रभुवनभोगात्मना परिणतो बिन्दुः प्राप्यः, शिवस्तु शक्त्यविनाभूतो नैष्ठिकदीक्षाभाजां मुमुक्षूणाम् | तत्प्राप्तये च कलादिषत्प्रकारोऽध्वा शिवेन शास्त्रेषु वर्ण्यते || ६ || एषां चाध्वत्वमुपरिष्टात् साधयिष्यति, इदानीमस्य दीक्षादावुपयोगं दर्शयति- एतदेव मतं बीजं त्रयं दीक्षाप्रतिष्ठयोः | एतदपरिज्ञाने दीक्षाप्रतिष्ठयोरशक्यानुष्ठानत्वादिद-मेव तयोर्मूलमित्यर्थः || एतदेव स्फुटीकरोति- योगाश्च विविधाः कर्म नित्यनैमित्तिकं यथा || ७ || ज्ञानानि सिद्धयो मोक्षा अपि तस्यावबोधनात् | एतदेव परा काष्ठा मोक्षाख्याणोर्विचारतः || ८ || योगाः सालम्बनादयः | नित्यं पूजादि | नैमित्तिकं दीक्षादि | ज्ञानानि तद्विषयाणि पशुपाशपतिविषयाणि च | सिद्धयः अणिमाद्याः | मोक्षः शिवसाम्यं सदाशिवादिपदप्राप्तिश्च | यदुक्तं श्रीमन्मतङ्गे- मोक्षः सप्तप्रकारोऽयम्, (यो० ५|६७) इति | एतत्सर्वं तज्ज्ञानात् सिद्ध्यतीति | किञ्च, एतत्प्राप्तिरेवाणोः परा काष्ठा, परमोक्ष इत्यर्थः || ७-८ || ततश्च- श्रोतव्यमेतदाप्तोक्त्या मन्तव्यं चोपपत्तिभिः | ध्येयं च योगमार्गेण शक्तिपातोदितात्मभिः || ९ || शक्तिनिपातान्मलपरिपाकाविनाभूतादुदितात्मभिरूर्ध्व-पदोन्मुखचेतोभिः | अनेन चैषामागमानुमानयोगिप्रत्यक्ष-सिद्धत्वं सूचयति || ९ || का पुनरत्राप्तोक्तिरत आह- आप्तोक्तिरत्र सिद्धान्तः शिव एवाप्तिमान् यतः | न ताभ्यां सदृशः कश्चिच्छ्रेय आप्तिविधायकः || १० || सिद्धान्तशब्दः पङ्कजादिशब्दवद्योगरूढ्या शिवप्रणीतेषु कामिकादिषु दशाष्टादशसु तन्त्रेषु प्रसिद्धः | ततस्तान्येवाबाधितत्वात् प्रमाणानीति भावः | कुत इत्यत्राह- शिव एवाप्तिमान् यत इति | ननु कणादपतञ्जलिप्रभृतयोऽप्याप्ता एवेत्यत आह- न ताभ्यामिति | सत्यम्, तेऽपि स्वविषये वस्तुन्याप्ता एव, किन्त्वसर्वज्ञत्वात् तेषां तत्प्रणीतानि च शास्त्राणि तदविषयेषु बिन्द्वादिषु वस्तुषु न प्रमाणीभवितुमर्हन्ति, शिवस्तु निरतिशयसर्वार्थज्ञानक्रियत्वात् परमाप्तः, तत्प्रणीतानि च शास्त्राणि सार्वाऽन्यागमप्राप्यस्थानप्रदर्शनपूर्वकं तदनधिगतार्थगन्तृत्वादबाधितत्वाच्च प्रमाणान्येव | यदाहुः- अनधिगतार्थगन्तृ प्रमाणम् इति | ततस्तेन शिवेन तदागमेन च सदृशं न किञ्चिच्छ्रेयसः साधकमस्ति | ननु नित्यत्वादेवागमानां प्रामाण्यं नाप्तप्रणीततयेति मीमांसकाः, तदयुक्तम्, रचनायाः कर्तारं विना घटादिवदुत्पत्त्यदर्शनात् | इत्यादि विस्तरेण साधितमस्माभिर्मृगेन्द्रवृत्तिदीपिकायामिति तत एवावधार्यम् || १० || यद्येवं वामादयोऽपि शैवत्वेन प्रसिद्धाः शिवकृता एव, तन्न, परस्परविरुद्धार्थाभिधायित्वेन तेषां शिवाकृतत्वात् | यदाहुः- (पूर्वतनी १३५ पृष्ठस्था प्रथमा टिप्पणी द्रष्टव्या |) सुगतो यदि सर्वज्ञः कपिलो नेति का प्रमा | अथोभावपि सर्वज्ञौ मतिभेदः कथं तयोः || इति | प्रसिद्धिस्तु तेषां शिवाधिष्ठितात्मान्तरप्रणीतत्वेनेत्यविरोधः | एतदेवाह- सिद्धान्त एव सिद्धान्तः पूर्वपक्षास्ततः परे | आप्तस्तु शिव एवैकः शिवान्ये त्वशिवा मताः || ११ || शिवत्वं चात्र सर्वज्ञत्वसर्वकर्तृत्वमभिप्रेतम् || ११ || ततश्च- सिद्धान्तः सेव्यते सद्भिः शक्तिपातपवित्रितैः | कामकारितयाऽन्यैस्तु निन्द्यते पशुशास्त्रवत् || १२ || एतदेव शक्तिपातचिह्नत्वेनोक्तं श्रीमन्मृगेन्द्रे- येषां शरीरिणां शक्तिः पतत्यविनिवृत्तये | विनिवृत्तये | तेषां तल्लिङ्गमौत्सुक्यं मुक्तौ द्वेषो भवस्थितौ || भक्तिश्च शिवभक्तेषु श्रद्धा तच्छासके विधौ | (वि० ५|४-५) इति | ततश्च शक्तिपातानन्तरभाविन्या दीक्षया पवित्रितैः शोधितैः सिद्धान्तः सेव्यते | यदुक्तं श्रीमत्किरणे- तीव्रशक्तिनिपातेन गुरुणा दीक्षितो यदा | सर्वज्ञः स शिवो यद्वत् (वि० १|२१) इति || १२ || अस्य च पशुजननिन्दया न प्रामाण्यव्याहतिरस्तीति दृष्टान्तेनाह- नहि कस्तूरिकामोदः पुरुषैः प्रतिहन्यते | हेतुभिः साध्यते किन्तु धन्यैराघ्रायते सदा || १३ || तदीयदीक्षाद्युपयोगितया शिवादिपरिज्ञानं भोगमोक्षार्थिभिः कार्यम् | तज्ज्ञानं च सिद्धान्ताभ्यासेन, तदभ्यासश्च शक्तिपाताविनाभाविन्या दीक्षया सिद्ध्यतीत्युक्तम् || १३ || अत्र केचिदाहुः- मिमनेनासत्यभूतेन शिवादिवस्तुकथनेन तत्परिज्ञानसाधनकथनेन वा, सर्वं खल्विदं ब्रह्म (छा० उ० ३|१४|१), एको वशी सर्वभूतान्तरात्मा (कठो० ५|१२) इत्यादिश्रुतिभिः परमात्मैव चिदाकारः सत्यभूतः | स एव शिवादिशब्दवाच्यो नान्यत्किञ्चिदस्ति | ततः परमानन्दस्वरूपस्य तस्य यथावदवबोध एव मोक्षहेतुरिति | तान् प्रत्याह- वेदान्तैश्च कुलाम्नायैस्तथान्यैः प्रतिपाद्यते | आनन्दविप्रलब्धानामानन्दोपहिता चितिः || १४ || यदेतद्वेदान्तादिशास्त्रैरन्यैश्च शाक्तादिभिश्चितिश्चैतन्यात्-मकमेव वस्तु पारमार्थिकम्, तस्याश्चितेरानन्दोपहितायाः परमानन्दस्वरूपाया अवबोध एव मोक्षहेतुरिति प्रतिपाद्यते; तदानन्दविप्रलब्धानाम् आनन्दं ब्रह्म (बृ० उ० ३|९|३४) इति श्रुतिगतस्यानन्दशब्दस्य परिपूर्णतार्थस्य सुखार्थताभ्रान्त्या विप्रलब्धानामपरिणतमलानामेव शोभते, नान्येषामस्मदा-दीनां शिवानुगृहीतानामिति भावः | तथा ह्यात्मैकत्वं तावत् साधयितुमशक्यम्, अनेकत्वप्रतिपादकानां श्रुतीनां सम्भवात्, एकत्वश्रुतीनामन्यपरत्वादनेकत्वज्ञापकस्य दृश्यमानस्य जननमरणादिप्रतिनियमस्यानपह्नवनीयत्वाच्च | तेषां चात्मनामस्वातन्त्र्यस्य दर्शनाद् बद्धत्वे सति तेषां भोगमोक्षकर्ता शिवः, तदुपादानादयश्चागमेनानुमानेन सिद्धा इत्यादिविस्तरेणास्माभिर्मृगेन्द्रवृत्तिदीपिकायां दर्शितम्, साधितं च रामकण्ठादिभिर्मतङ्गवृत्त्यादाविति ततोऽवधार्यम् | ग्रन्थविस्तरभयान्नात्र प्रपञ्च्यते || १४ || अत एवात्मविषयं विज्ञानमपि तत्तच्छास्त्रप्रसक्तानां यथावन्न संभवतीत्याह- चिन्महोदधिगाम्भीर्यमवसीयेत सूरिभिः | अवगाह्य परानन्दलहरी यदि नोत्क्षिपेत् || १५ || यदि हि प्रोक्तवत्परमानन्दभ्रान्तिकल्लोलस्तान्नोत्क्षिपति, ततो विद्वद्भिश्चिन्महोदधेरात्मवर्गसमुद्रस्य गाम्भीर्यं सर्वज्ञत्वसर्वकर्तृत्वात्मस्वरूपं नित्यत्वव्यापकत्वानेकत्वादि चावगाह्य प्रमाणैर्विषयीकृत्यावसीयेत, नान्यथा | तत्तच्छास्त्रकर्तृणामसर्वज्ञत्वात् तद्वचनादेतन्न संभवतीत्यर्थः || १५ || कुतः पुनरेतज्ज्ञायते ? अत आह- तदत्र कथितं सर्वस्रोतसां ज्यायसि प्रभोः | उदक्षेणोर्ध्ववक्त्रेण ततस्तदवधारयेत् || १६ || तच्चात्मस्वरूपं वामादिसमस्तशास्त्रस्रोतसां मध्यादुत्कृष्टे सिद्धान्ताख्ये स्रोतसि कथितमिति तत एवावधार्यम् | शिवकृतत्वेन ज्यायस्त्वमेवास्य साधयति- प्रभोरुदक्षेणोर्ध्ववक्त्रेणेति | कथितमिति | वक्त्रशब्देन वचनत्राणरूपा शक्तिरुच्यते, परमार्थतः शिवस्य देहाभावात् | अतश्चोदक्षेणोदङ्मुखेनानुग्रहप्रवृत्तेनोर्ध्वस्थितेन च शक्त्यात्मना वक्त्रेण | बिन्दुशक्तेर्नादादिक्रमेणोत्पादिते शास्त्रे प्रकाशितमित्यर्थः | नन्वशरीरस्य शास्त्रोपदेशानुपपत्तिः ? तन्न, जगत्सृष्ट्यादिवत् सङ्कल्पमात्रेण विद्येश्वरादीनां शास्त्रावबोधकत्वात् || १६ || किञ्च- हेतूनपि परीक्षायै लक्षयेत् तस्य शास्त्रतः | नह्यत्र शेमुषी शुद्धा विपुलापि प्रगल्भते || १७ || तस्यात्मस्वरूपस्य परीक्षणमपि सिद्धान्तोक्तैरेव हेतुभिः कार्यमिति भावः || १७ || इत्थं प्रसङ्गादात्मस्वरूपस्य सिद्धान्तैकगम्यत्वं प्रसाध्य प्रकृतानां शिवादिरत्नानां श्रवणमनननिदिध्यासनानि सिद्धान्तादेवेति प्रागुक्तं प्रपञ्चयति- अलौकिकानि सूक्ष्माणि गोपितानि शिवेन च | त्रीणि रत्नानि को वेत्ति सिद्धान्तेत विना स्वयम् || १८ || हेतूनपि कुतर्कान्धतमसारीन् मनीषया | तद्वद् योगं च को वेत्ति सबीजाबीजलक्षणम् || १९ || तत्र सबीजयोगः सदाशिवाद्याकारः सकलविषयः, निर्बीजस्तु निष्कलविषयः | अनेनैषामागमानुमानयोगिप्रत्यक्षगम्यत्वमपि दर्शयति || १८-१९ || अपि च- सिद्धान्तः सेवितः सद्भिरपि कानान् प्रयच्छति | सर्वान् साधकचित्तस्थानाप्तश्चिन्तामणिर्यथा || २० || सिद्धान्तादेव साधकानां तत्तत्सिद्धसाधनज्ञानं तदनुष्ठानात् फलावाप्तिश्चेत्यर्थः || २० || इत्थं सिद्धान्तज्ञानफलं प्रदर्श्य तदभिधेयार्थ-प्रकाशकत्वादस्यापि प्रकरणस्य तदेव प्रयोजनमिति सूचयन् अभिधेयपरीक्षां प्रतिजानीते- तमासेव्य मयाप्येषा बिन्दुशक्तिशिवाश्रया | परीक्षा क्रियते तत्र बिन्दुरादौ निरूप्यते || २१ || तत्र बिन्दुसिद्धिमाह- जायतेऽध्वा यतः शुद्धो वर्तते यत्र लीयते | स बिन्दुः परनादाख्यः नादबिन्द्वर्णकारणम् || २२ || वक्ष्यमाणवद्विचित्रभुवनादिरूपत्वेन शुद्धाध्वनः कार्यत्वात् तदुपादानं बिन्दुः सिद्ध्यति | किञ्च, शब्दोपादानतयापि तस्य सिद्धिरित्याह- नादविन्द्वर्णकारणमिति | तत्र नादो नामाभिधेयबुद्धिहेतुर्बिन्दोः प्रथमप्रसररूपः सूक्ष्मो नादश्चिन्तया रहितत्वेन श्रीमत्कालोत्तराद्युक्तः | बिन्दुश्च तत्कार्यं मयूराण्डरसबिन्दुवदव्यपदेश्यः परामर्शज्ञानरूपोऽक्षर-बिन्दुस्तत्रैव सूक्ष्मत्वेनोक्तः | अर्णश्च वर्णं आकाशवायुप्र-भवः श्रोत्रग्राह्यः स्थूलशब्दः | तदुक्तं तत्र- स्थूलं शब्द इति प्रोक्तं सूक्ष्मं चिन्तामयं भवेत् | चिन्तया रहितं यत्तु तत्परं परिकीर्तितम् || (१|८) || २२ || तत्र शुद्धाध्वनो भुवनाद्याधारत्वं दर्शयितुमाह- उत्तीर्णमायाम्बुधयो भग्नकर्ममहार्गलाः | अप्राप्तशिवधामानस्त्रिधा विज्ञानकेवलाः || २३ || त्रिविधा हि पश्वात्मानः- तत्र मलकर्ममायायुक्ताः सकलाः, प्रलयाद्युपसंहृतकलादयो मलकर्मयुक्ताः प्रलयाकलाः, विज्ञानादिभ्यः कर्मणोऽपि क्षयान्मलमात्रयुक्ता विज्ञानकलाः | ते पुनः मलपरिपाकतारतम्यात् शिवप्रसादेन भग्नकर्ममलाख्य-महारोधाः किञ्चिदवशेषिताधिकारमलत्वादसंप्राप्तशिव- साम्यास्त्रिविधा एव विज्ञानकेवलिनो भवन्ति || २३ || के ते भेदा इत्याह- विद्याविद्याधिपतयः पशुपूर्वाः सदाशिवाः | तत्र विद्याभुजः पूर्वे मन्त्रा विद्याश्च नामतः || २४ || तत्र प्रथमे विद्यातत्त्वनिवासिन इत्याह- तत्र विद्याभुज इति || २४ || विद्येश्वरनियोज्यास्ते संख्यया सप्तकोटयः | तेषां पुराणि विद्यायां वामादीनि यथोत्तरम् || २५ || विद्येश्वरनियोज्यत्वं चैषामनुग्रहकरणत्वात्, विद्येश्वराणां च पञ्चविधकृत्याधिकारित्वात् || २५ || स्फीतानि नव जातानि तनुभोगेन्द्रियादिभिः | एतानि भुवनान्युत्तरोत्तरं विशिष्टभोगादिमन्तीत्यर्थः || अथैतेभ्यो विशिष्टा विद्येशा इत्याह- मध्याः प्रशान्तकलुषा विद्येशाः शिवतेजसः || २६ || अधिकारमलोपेतास्तत्त्वमैशं समाश्रिताः | शिवार्ककरसंपर्कविकासात्मीयशक्तयः || २७ || प्रशान्तमलत्वमधिकारमलयोगित्वं शिवानुगृहीतत्वं च मन्त्राणामपि समानमेव | शिवतेजसः पञ्चविधकृत्यकारिणः | यदुक्तं श्रीमद्रौरवे- सृष्टिसंरक्षणादानभावानुग्रहकारिणः (१|१५) इति || २६-२७ || अष्टावनन्तपूर्वास्ते यथापूर्वं गुणाधिकाः | तथा पुराणि तत्रैषामनन्तः परमेश्वरः || २८ || अष्टावनन्तपूर्वा इति | अनन्त-सूक्ष्म- शिवोत्तम- एकनेत्र- एकरुद्र- त्रिमूर्ति- श्रीकण्ठशिखण्डिसंज्ञाः | तत्रेश्वरतत्त्वे तेषामष्टौ भुवनानि प्राग्वदेव | अत एषामनन्त एव परमेश्वरः || २८ || तत्राणवः पुरेष्वासन् नाप्यन्ये तद्विभूतयः | परे सदाशिवसमाः पतिकृत्याधिकारिणः || २९ || तत्तद्भुवनेश्वराराधनादिना दीक्षया वा तेषु भुवनेषु योजिता आत्मानश्च विद्यन्ते | अयं च न्यायो विद्याभुवनेषु सदाशिवादिभुवनेषु च विज्ञेयः | यदुक्तं सूक्ष्मस्वायम्भुवे- यो यत्राभिलषेद् भोगान् स तत्रैव नियोजितः | सिद्धिभाङ्मन्त्रसामर्थ्यात् (३९|२) इति | अथ पशुसदाशिवानाह- परे सदाशिवसमा इति || २९ || मूर्धानमध्वनः प्राप्ताः प्रसन्ने परमेश्वरे | सदाशिवश्चात्राधिकारावस्थः शिव एव | तस्य च अधिकारादयोऽवस्था औपचारिका इत्युक्तम्- अधिकारी स भोगी च लयी स्यादुपचारतः इति | संस्कार्यसदाशिवादीनां तु भेदो वास्तव एव | एते च सदाशिवतत्त्वस्थसदाशिवभुवनवासिन इत्याह- तत्त्वमेषामसूताङ्गपुरभोगादिशोभितम् || ३० || सदाशिवमधिष्ठातृनाम्ना तेऽपि सदाशिवाः | अत एवैषां देहादयोऽवास्तवा एव, अधिष्ठातुस्तस्य शिवस्य न पारमार्थिका इत्युक्तं श्रीमत्पौष्करे- साधकस्य तु लक्ष्यार्थं तस्य रूपमिदं स्मृतम् इति || ३० || उक्तार्थमुपसंहरति- अष्टादशभिरध्वायं भुवनैः सह भोक्तृभिः || ३१ || त्रिभिश्च तत्त्वैरुद्दिष्टो विशुद्धः शिवकर्तृकः | एष चाध्वा कार्यत्वात् शिवकर्तृक इत्यर्थः | अत्र च निवृत्त्यादिभुवनानां शक्तिशिवतत्त्वयोश्च सदाशिवतत्त्व एवान्तर्भावो विज्ञेयः || ३१ || कार्यत्वादेवास्य शुद्धाध्वनः केनापि नित्येन कारणेन भवितव्यम्, तच्च बिन्द्वाख्यमित्याह- सदाशिवादितत्त्वौघो नित्योपादानकारणः || ३२ || विकारित्वाद्यथा कुम्भस्तथा चैष ततस्तथा | एषोऽपि सदाशिवादिरध्वा विकारी, ततो नित्योपादानकारण इति || ३२ || ननु घटोपादानकारणस्य मृत्पिण्डस्यानित्यत्वादनेनापि शुद्धाध्वोपादानेनानित्येन भवितव्यमिति धर्मिस्वरूपविपरीत-साधकत्वाद् विरुद्धोऽयं विकारित्वादिति हेतुः ? अत आह- पार्थिवोऽपि भवेत् कुम्भो मायोपादानकारणः || ३३ || साक्षान्मृदुपादानत्वेऽपि घटस्य परम्परया मायैवोपादानकारणमिति || ३३ || कुत इत्याह- विनाशोत्पत्तिमत्त्वाभ्यां परिणामितया तथा | अयमभिप्रायः- उत्पत्तिविनाशधर्मिणां हि वस्तूनां घटकपालाद्यवान्तरपरिणामत्वेनावान्तरकार्यकारणभावे सत्यपि पृथिव्यादितत्त्वानां परम्परयोपादानं मायाख्यं नित्यं परमकारणमभ्युपगन्तव्यम्, अन्यथाऽनवस्थाप्रसङ्गात् | उक्तं च श्रीमत्स्वायम्भुवे- मायातत्त्वं जगद्बीजमविनाश्यव्ययात्मकम् इति || एतदेव प्रपञ्चेन साधयति- यद्यदुत्पद्यते वस्तु तन्मायेयं यथा कला || ३४ || उत्पत्तिनाशौ मायेयधर्मावाह महेश्वरः | आप्तवाक्येनाप्येतत्सिद्धमिति भावः || ३४ || इदानीं सत्कार्यवाददृष्ट्या कलाद्यवस्थाभेदेनोत्पत्ति-विनाशव्यपदेशं भजन्ती मायैव कलादिकार्यद्वारेण परिणमत इति दर्शयितुं परिणामशब्दार्थमाह- परिणामो हि वस्तूनां पूर्वावस्थापरिच्युतेः || ३५ || अवस्थान्तरसंप्राप्तिः क्षीरस्य दधिभाववत् | दध्नश्च तक्रवत् तत्र तक्रावस्था निरूप्यते || ३६ || दृष्टान्तस्वरूपनिरूपणायाह- तत्रेति || ३५-३६ || सा हि- न दध्नो नापि दुग्धस्य पूर्वावस्थे हि ते मते | दध्यवस्थायां क्षीरावस्थायां वा तक्रावस्था नास्तीत्यर्थः | तथा हि क्षीरमेव दध्यादिरूपेण परिणमते, क्षीरं नष्टं दध्युत्पन्नमित्यादिव्यपदेशश्च दृश्यते | एतदेवाह- सदवस्थं हि वस्त्वेकं पूर्वं क्षीरं ततो दधि || ३७ || असत उत्पत्त्यसंभवात् सदेव दधि क्षीरादभिव्यज्यते, सदेव तक्रं दध्नोऽभिव्यज्यत इति भावः | अयं च सत्कार्यवादोऽस्माभिर्-मृगेन्द्रवृत्तिदीपिकायां विस्तरेण दर्शितः || ३७ || यथा चैषां दधिनवनीताद्यवस्थापरिणामभेदेन विचित्रार्थक्रियाणां कार्याणां क्षीरमेवोपादानम्, एवं तत्त्वभुवनादिभेदेन विचित्रपरिणामवतां विचित्रार्थक्रियाणां च कलादिकार्याणां साक्षात् परम्परया च मायैव परमकारणमित्याह- पश्चात् तक्रं तथा माया विचित्रपरिणामतः | तत्त्वतात्त्विकभावानामुपादानमनश्वरम् || ३८ || यद्येवं क्षीरवत् सत्वात्मना परिणामादनित्यत्वं मायायाः, तन्न, सर्वथा दृष्टान्तासंभवात्, परिणामित्वमात्र एवास्य दृष्टान्तत्वम् | ततश्च घृतकीटन्यायेनैकदेशेनैव माया परिणमत इत्यदोषः || ३८ || इत्थं घटस्यापि परम्परया नित्योपादानत्वं प्रसाध्योपसंहरति- ततो निदर्शनं साधु प्रसिद्धोक्तविशेषणम् | प्रकर्षेण सिद्धमुक्तं नित्योपादानत्वरूपं विशेषणं यस्य तत् तथाविधमिति | पारिशेषिकानुमानेनापि बिन्दुसिद्धिमाह- न माया नेश्वरो नाणुर्न शक्तिः शुद्धवर्त्मनः || ३९ || उपादानमतो बिन्दुः परिशेषेण लभ्यते | तत्र मायाया अनुपादानत्वं साधयति- तथाहि माया या तेषां क्षोभिताऽनन्ततेजसा || ४० || जलादिक्षितिपर्यन्तं तत्त्वजातमसूत सा | तेषां मध्याद् या माया, सा ह्यचेतनत्वादनन्तसामर्थ्य-क्षोभितैव स्वकार्यमुत्पादयति | यदुक्तं श्रीमत्किरणे- शुद्धेऽध्वनि शिवः कर्ता प्रोक्तोऽनन्तोऽसिते प्रभुः (वि० ३|२७) इति || ४० || तत्रैव हेतूनाह- अविशुद्धजडत्वेन मायामार्गतया तथा || ४१ || दुःखानुषङ्गान्मायेयकार्माणवमलान्वयैः | सकलाणूपभोग्यत्वात् परिणामोदयैरपि || ४२ || यतोऽस्या अशुद्धाध्वनोऽशुद्धत्वे सति जडत्वम्, यतश्च मायामार्गत्वं मोहहेतुत्वम्, यस्माच्च दुःखानुषङ्गः, यतश्च मायेयैरनात्मनि आत्माभिमानादिभिर्मलैः, कार्मेण सुखदुःखमोहहेतुना विपर्ययासक्त्यादिभावप्रत्ययात्मना मलेनाणवेन चाणोरनाद्यावारकेण पशुत्वाख्येन संबन्धः, बन्धत्रययोगिनामेव देहेन्द्रियादिजनकत्वात् | अत एव यतश्च सकलाणूपभोग्यत्वं भुवनादिद्वारेण, यस्माच्च विचित्रकर्मफलभोगसाधनत्वेन विचित्रा अनेकविधाः परिणामोदयाः परिणामवृद्धयः, तस्मादनन्तेन क्षोभिता माया तादृशं कार्यं जनयति, शुद्धस्य शिवस्य अशुद्धविषये कर्तृत्वायोगात् | यद्येवं शिवस्यासर्वकर्तृत्वप्रसङ्गः ? तन्न, साक्षात्कर्तृत्वमत्र निषिद्धं न तु प्रयोजककर्तृत्वम्, अनन्तादेरपि तदधिष्ठानं विना कर्तृत्वासंभवात् || ४१-४२ || एतदेव प्रपञ्चयति- माया जडान्तरव्याप्ता परिणामवती च यत् | निष्पादने कलादीनां शरीरादिसमन्वितम् || ४३ || पुरुषं गमयेदेव पराधीनमसंशयम् | सुवर्णमिव कर्मारं मकुटोत्पादकर्मणि || ४४ || यद्येवं शिवस्यापि शुद्धविषये कर्तृत्वात् शरीरेन्द्रिययोगादि-प्रसङ्गः ? तन्न, तस्य नित्यनिर्मलनिरतिशयसर्वार्थज्ञानक्रिया-युक्तत्वात्, अशरीरस्याप्यात्मनः स्वदेहस्पन्दादौ कर्तृत्वदर्शनाच्च | अनन्तस्य त्वधिकारमलयोगाच्छरीराद्यपेक्षेत्यविरोधः || ४३-४४ || अतश्च- सैषा विकल्पविज्ञानगोचरैव सती च यत् | क्षोभ्यतेऽनन्तनाथेन कुम्भकारेण मृद् यथा || ४५ || सविकल्पज्ञानविषय एव शरीरिणां कर्तृत्वं दृष्टमिति भावः || ४५ || किमत इत्यत आह- सविकल्पविज्ञानं चितेः शब्दानुवेधतः | सविकल्पकविज्ञानमयं घट इति परामर्शरूपात् शब्दोल्लेखादेवात्-मनो दृश्यते || कि~चातः ? इत्यत आह- स तु शब्दश्चतुर्धा वाग्वैखर्यादिविभेदतः || ४६ || जायते बिन्दुसंक्षोभादनन्तस्यार्थदर्शने | अनन्तस्य सविकल्पकज्ञानोत्पत्त्यर्थमवश्यं शब्दोऽपेक्षितः | तदानीं चाशुद्धाध्वनोऽनुत्पत्तेः स्थूलाकाशाभिव्यङ्ग्यत्वं न शब्दस्योपपद्यत इति शिवक्षुभितबिन्दुजन्य एव शब्दोऽभ्युपगन्तव्यः | तस्य च वैखर्याद्याश्चतस्रो वृत्तीर्वक्ष्यति | तत्र शब्दोपादानत्वेनापि बिन्दुसिद्धिः || ४६ || किञ्च- विद्याशरीरो भगवाननन्तः क्षोभको मतः || ४७ || मायायाः सा च विद्वद्भिर्बैन्दवं तत्त्वमुच्यते | अनन्तस्य बैन्दवशरीरयोगः श्रूयते, तदुपादानतया बिन्दुः सिद्ध्यतीति भावः || ४७ || अत्रोपसंहारः- अतो न मायोपादानं तथैवायं महेश्वरः || ४८ || बिन्दुरेवात्र शुद्धाध्वन्युपादानमित्यर्थः | किमनेनाप्रसिद्धेन बिन्द्वाख्येन कल्पितेन, ईश्वर आत्मा तच्छक्तिर्वा शुद्धाध्वन्युपादानमस्तु, अत आह- तथैवायमिति || ४८ || चेतनत्वादवृत्तित्वात् परिणामात् ततस्तथा | आत्मा शक्तिश्च विज्ञेयौ विस्तरोऽत्रै?व वक्ष्यते || ४९ || मृदादीनां ह्यपादानानामचेतनत्वं दृष्टम् | चेतनाश्च शिवात्मशक्तयः | ततस्ते नोपादानं भवितुमर्हन्ति | किञ्च, उपादानं हि परिणामेन वा कार्यमुत्पादयति, यथा क्षीरस्य दधिभावः, वृत्तिरूपेण वा, यथा पटस्य गृहादिभावः | शिवादीनामेषां तु वृत्तिपरिणामौ न संभवतः, अविकारित्वात्, विकारित्वे जडत्वानियत्वादिदोषप्रसङ्गात् | अस्य प्रपञ्चोऽत्रैव भविष्यति | प्रोक्तं चास्माभिस्तत्त्वप्रकाशवृत्तौ || ४९ || अन्यथा बिन्दुसिद्धिमाह- इतोऽपि लक्ष्यते बिन्दुरणुवैषम्यदर्शनात् | कुत इत्यत्राह- अणुवैषम्यदर्शनादिति | अणूनामात्मनां ज्ञानादिवैषम्यदर्शनात् || वैषम्यमेवाह- दृश्यन्ते पुद्गलाः केचिदल्पज्ञानक्रियान्विताः || ५० || तेभ्योऽधिकाः परेऽन्ये तु सर्वज्ञा बलशालिनः | एतच्च वैचित्र्यं तेषां न स्वतः संभवतीत्याह- पुद्गलश्चेतनो नित्यो विकाररहितो मतः || ५१ || आत्मनो हि सर्वदाऽनन्तघटपाटाद्यध्यवसायज्ञानानु-संधातृत्वेन स्वसंवेदनसिद्धत्वाद् देहान्तरफलकर्मभोक्तृतया च चेतनत्वं नित्यत्वं च सिद्धमागमेषु श्रूयते | इत्यतोऽस्य न विकारः संभवति || ५१ || अन्यथा हि- विकारित्वे जडानित्यभावः स्याद् घटकुड्यवत् | अयं च न्यायः शक्तेरपि समानः, धर्मधर्मिणोरव्यतिरेकादित्याह- तथैव च चितिः शक्तिस्तयोरप्यविकारिणोः || ५२ || इदं च प्रागेव दर्शितम् | उक्तं च नादकारिकासु- अविकार्यत्रात्मोक्तस्तच्छक्तिश्चाप्यतो न योग्यौ तौ | बहुधा स्थातुं यद्वा चैतन्यविनाकृतौ विकारित्वात् || (श्लो० १९) इति | अत एव तयोरौपाधिकमेव वैचित्र्यमित्याह- तयोरपीति || ५२ || बहुधा यदवस्थानं तदुपाधिवशाद् भवेत् | ततश्च- संपृक्ता चिदणोर्येन मायाद्यर्थावलोकने || ५३ || यदुपाधेर्विचित्रा च स बिन्दुर्बहुवृत्तिकः | अत्रात्मनां चिच्छक्तिर्येन नादात्मना परिणतेनाभिधेय-बुद्धिबीजेन संपृक्ता मायेयसविकल्पार्थावलोकने प्रवर्तते, यस्य च प्रत्यात्मनियतैर्नादाख्यैर्विचित्रैर्वृत्तिभेदैरुपहिता विचित्रैव प्रकाशते, स बिन्दुः | एतच्च विस्तरेणोक्तं तत्रभवता रामकण्ठेन नादकारिकासु | प्रोक्तं च श्रीमत्कालोत्तरे- नादाख्यं यत्परं बीजं सर्वभूरेष्ववस्थितम् (१|५) इति || ५३ || ननु कर्मणैव प्रत्यात्मनियतेनात्मनां भोगवैचित्र्यवद् ज्ञानादिवैचित्र्यमप्यस्तु ? अत आह- न कर्मणाऽणोर्वैचित्र्यमनपेक्षेण जायते || ५४ || वैचित्र्यमपि भोगस्य सापेक्षेणैव तेन यत् | कर्म हि कलादितत्त्वभुवनादिसापेक्षमेव भोगवैचित्र्यं करोति, अन्यथा पृथिव्यादीनामप्यनुपयोगात् || ५४ || एवं ज्ञानवैचित्र्यमपि नादसहकृतमेव करोति न केवलम् | तदेव सापेक्षत्वं दर्शयति- कर्मोपभोगं कुरुते वैचित्र्यं चन्दनादयः || ५५ || तदेव यदि तत्कुर्यात् किं तैरिति विलुप्यताम् | कर्म परं फलजननमेव करोति, तस्य तु वैचित्र्यं सहकारिवैचित्र्यादेव भवतीति भावः | ननु कर्मतश्च शरीराणि विविधानि (विषयाः कारकाणि चेति तत्रत्यः पाठः |) शरीरिणाम् (स्वा० ३२|१३) इति श्रीमत्स्वायम्भुवश्रुतेः कर्मैव साधनवैचित्र्यमपि करोति | सत्यम्, साधनवैचित्र्यद्वारेणैव कर्म फलवैचित्र्यं करोति न केवलमित्यविरोधः || ५५ || एतदेव द्रढयति- प्रवृत्तिः सर्वभूतानां त्यागोपादानकारणम् || ५६ || अपेक्ष्यवस्तुसद्भावे हि हेयानां त्यागार्थम् उपादेयानां चोपादानार्थं भूतानां प्रवृत्तिः संभवति, नान्यथा || ५६ || प्रकारान्तरेण बिन्दुसिद्धिमाह- किञ्चातिशायिकं प्राहुस्तमम्बरमनश्वरम् | शिवानामसमैश्वर्यभाजां भोगाधिकारयोः || ५७ || ज्योतिर्गणानामाकाशमिव भूतादिकारणम् | यथा हि पञ्चभूतादिभूतमाकाशमवकाशदायित्वेन स्थूलशब्दाभिव्यञ्जकत्वेन च सूर्यादीनां ज्योतिषां भोगाधिकारयोः कारणम्, एवं शुद्धाध्ववासिनां शिवानां सर्वज्ञत्वसर्वकर्तृत्वात्मकशिवत्वयोगिनां विद्येश्वरादीनामव-काशदानेन शब्दोत्पादनेन च भोगाधिकारयोः कारणं बिन्दुः सिद्धः | तं चानश्वरत्वेनापराकाशमातिशयिकं परमव्योमा-ख्यमागमज्ञाः प्राहुः, अपरस्य तत्र प्रगमासम्भवात् || ५७ || अधुना प्रागुक्तं बिन्दोः सविकल्पकज्ञानोपयोगित्वमुपसंहरति- बिन्दुरेव विकल्पाख्यां सविकल्पकबुद्धिषु || ५८ || स्ववृत्तिभेदसंभेदैरुल्लिखन् लभते चितिम् | बिन्दुरेव शब्दोपादानत्वात् सूक्ष्मादिवैखर्यन्तशब्दात्मक-स्ववृत्तिभेदसंबन्धाद् घटोऽयं लोहितः परिवर्तुल इत्यादिपरामर्शविकल्पोल्लेखनेन सविकल्पज्ञानेष्वात्मनश्चितिं सविकल्पकानुभवमुत्पादयति | शब्दानुवेधेन हि जात्यादिविशेषण-विशिष्टं सविकल्पज्ञानमुत्पद्यते | यदाहुः- अस्ति ह्यालोचनं ज्ञानं प्रथमं निर्विकल्पकम् | बलमूकादिविज्ञानसदृशं शुद्धवस्तुजम् | ततः परं पुनर्वस्तु धर्मैर्जात्यादिभिर्यया | बुद्ध्याऽवसीयते सापि प्रत्यक्षत्वेन संमता || (श्लो० वा० प्रत्यक्ष० ११२, १२०) इति || ५८ || न चायं भावनासंज्ञः संस्कारोऽध्यक्षभावतः || ५९ || संस्काराः स्मृतिलिङ्गा हि नास्मत्प्रत्यक्षगोचराः | नायं सविकल्पानुभवः पूर्वानुभूतवासनात्मकः संस्कारो मन्तव्यः, तस्यानुमेयत्वात्, अस्य च प्रत्यक्षानुभव-रूपत्वात् | स्मृत्यन्यथानुपपत्त्या हि संस्कारः कल्प्यते || ५९ || नन्वध्यवसायस्य बुद्धिकार्यत्वाद् बुद्धिपरिणामभेद एव सविकल्पानुभवः ? अत आह- न बुद्धेः परिणामो वा मायोर्ध्वमपि सम्भवात् || ६० || बुद्धेरध्यवसायहेतुत्वेऽपि बिन्दुकार्यशब्दसहकारादेव सविकल्पकज्ञानं जन्यत इत्युक्तम् | अत एव शुद्धाध्वनो बुद्ध्यभावेऽपि वाक्शक्तिद्वारेण विद्येश्वरादीनां सविकल्पानुभवः सिद्धः || ६० || ततश्च- तथा विद्येश्वरोऽनन्तो मायामाक्रम्य तेजसा | ततः सृष्टिं प्रकुरुते सविकल्पकबोधवान् || ६१ || अणुत्वे सति कर्तृत्वादस्मत्प्रेष्यो यथा जनः | अनन्तस्य अणुपक्षतयाऽधिकारमलशेषेण प्रेर्यत्वात् सविकल्पकज्ञानयोगादेव मायाक्षोभकत्वम्, न तु शिवस्य बिन्दुक्षोभवन्निर्विकल्पकमात्रेणेति भावः || ६१ || इत्थमनन्तस्य सविकल्पकज्ञानयोगेन कर्तृत्वाच्छब्दद्वारेण विद्येश्वरादीनां तद्धेतुत्वेन बिन्दुसिद्धिरित्युक्त्वा अधुनाऽस्मन्नेवार्थेऽन्येषां मतमाह- अन्ये वृत्तिपरीणामभेदवादविशारदाः || ६२ || गुरवः कथयन्त्येनमन्यथोक्तविशेषणम् | उक्तविशेषणमेनमर्थमनन्तस्य सविकल्पकज्ञानयोगेन कर्तृभावमन्ये गुरवोऽन्यथा साधयन्ति || ६२ || परिणामस्य कर्ताऽयं न तु वृत्तेस्ततस्तथा || ६३ || यतोऽयमनन्तः परिणामस्य कर्ता ततस्तथाविधसविकल्पकज्ञानवानित्यर्थः || ६३ || एतदेव साधयति- इदमेवं मया क्षुब्धमिष्टं संपादयेद् ध्रुवम् | इति जानाति यः शक्तः स कर्ता परिणामिनाम् || ६४ || वृत्तिकर्तुस्तु न तदपेक्षेत्याह- परिणामिष्वयं धर्मो वृत्तिमत्स्वन्यथा भवेत् | एतदेव प्रपञ्चयितुं सविकल्पकज्ञानस्य निर्विकल्पकज्ञानपूर्वकत्वमाह- तथाहि सर्वो निर्धूतविकल्पमवलोकयन् || ६५ || वस्तु लोको विजानाति सविकल्पकमन्यथा | निर्विकल्पकज्ञानानन्तरं सविकल्पकज्ञानं भवतीत्युक्तं प्रागेव | अन्यथा ज्ञानाऽनवस्था | सविकल्पकज्ञानानभ्युपगमे निर्विकल्पकस्य वस्तुमात्रावभासकत्वेन सर्ववस्तुसाधारणत्वाद् ज्ञानानवस्था स्यात् | घटज्ञानमित्यादिनियमोऽनुपपन्न इत्यर्थः || ६५ || ततश्च- अनन्तेनापि शब्दानुविद्धविज्ञानपूर्वकम् || ६६ || सर्वं चेदिह विज्ञातमिष्येतैष करोति च | सविकल्पं विजानामीत्यवबोधाभिमानतः || ६७ || यस्मात् सविकल्पं ज्ञानं जानामीत्यवबोधरूपत्वात् परामर्शरूपेणान्तःसंजल्पात्मके शब्देनानुविद्धं जायते, तस्माच्छब्दानुविद्धसविकल्पकज्ञानपूर्वं मायादि वस्तु ज्ञात्वा अनन्तः क्षोभादिकं करोति, अज्ञातस्य करणादर्शनात् || ६६-६७ || शिवस्य तु वृत्तिकर्तुर्बिन्दुक्षोभेन तदपेक्षेत्याह- वृत्तिरेव मता बिन्दोः पटस्येव कुटी ततः | निर्विकल्पकबोधेऽपि बिन्दुमीशोऽधितिष्ठति || ६८ || अनन्तस्य च परिणामकर्तुरस्त्येव सविकल्पकज्ञानापेक्षेत्युपसंहरति- नैवं विद्येश्वरो मायामेषा हि परिणामिनी | इत्थं परमतमुपन्यस्य दूषयति- न वृत्तिपरिणामाभ्यां कर्तृभेदोऽवधार्यते || ६९ || कुर्वतोऽपि कुटीं बुद्धिः सविकल्पा हि दृश्यते | हीति यस्मादर्थे | एतच्च परमथाभ्युपगमनदूषणमुक्तम्, न तु सिद्धान्ततया, बिन्दोरपि तत्त्वभुवनादिरूपेण परिणामश्रुतेर्वृत्तिपरिणामयोरत्यन्तभेदाभावाच्च || ६९ || इदानीं बिन्दोः पर्यायनामान्याह- शब्दतत्त्वमघोषा वाग् ब्रह्म कुण्डलिनी ध्रुवम् || ७० || विद्या शक्तिः परा नादो महामायेति देशिकैः | बिन्दुरेवं समाख्यातो व्योमानाहतमित्यपि || ७१ || इदानीं बिन्दोः सूक्ष्मादिशब्दवृत्तीः संहारक्रमेण दर्शयति- चतस्रो वृत्तयस्तस्य याभिर्व्याप्तास्त्रिधाणवः | याभिर्व्याप्ता अणवः प्रोक्तवदुत्तममध्यमापकृष्टज्ञानादिमन्तो भवन्ति || ७०-७१ || कास्ता इत्यत्राह- वैखरी मध्यमाभिख्या पश्यन्ती सूक्ष्मसंज्ञिता || ७२ || अत आसां कारणत्वेन बिन्दुः सिद्ध इत्यर्थः || ७२ || वैखरीस्वरूपमाह- तत्र सा वैखरी श्रोत्रग्राह्या याऽर्थस्य वाचिका | सा च- स्थानेषु विधृते वायौ कृतवर्णपरिग्रहा || ७३ || प्रयोक्तणामियं प्रायः प्राणवृत्तिनिबन्धना | तदाहुः- आकाशवायुप्रभवः शरीरात् समुच्चरन् वक्त्रमुपैति नादः | स्थानान्तरेषु प्रविभज्यमानो वर्णत्वमागच्छति यः स शब्दः || इति | मध्यमामाह- केवलं बुद्ध्युपादाना क्रमाद् वर्णानुपातिनी || ७४ || अन्तःसंजल्परूपा तु न श्रोत्रमुपसर्पति | प्राणवृत्तिमतिक्रम्य वर्तते मध्यमाह्वया || ७५ || एषा च परामर्शज्ञानस्वरूपा स्थूलशब्दस्यापि कारणमित्युक्तम् || ७४-७५ || अविभागेन वर्णानां सर्वतः संहृतिक्रमात् | स्वयंप्रकाशा पश्यन्ती मायूराण्डरसोपमा || ७६ || इयं चाक्षरबिन्दुरूपेत्युक्तम् || ७६ || इदानीमभिधेयबुद्धिबीजत्वेन प्रागुक्तां नादापरपर्यायां सूक्ष्मावस्थामाह- स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनी | अनपायिनीत्वं चास्याः सुषुप्त्याद्यवस्थास्वपि संभवात्, न तु नित्यत्वेन | अस्या अपि प्रतिपुरुषं भेदेनानेकत्वादचेतनत्वाच्च कार्यत्वात् | तस्याश्च कारणं परबिन्दुरेवेत्युक्तम् || तामेव विशेषयति- यस्यां दृष्तस्वरूपायामधिकारो निवर्तते || ७७ || यस्यां पुरुषस्वरूपाद् विवेकेन दृष्टस्वरूपायां पुरुषस्य भोगाधिकारो निवर्तते | यद्येवं विवेकज्ञानादेव मोक्षसिद्धेर्दीक्षानर्थक्यप्रसङ्गः ? तन्न, मलस्य द्रव्यत्वाच्चक्षुःपटलस्य चक्षुर्वैद्यव्यापारेणेव ईश्वरव्यापारेण दीक्षाख्येनैव निवृत्तिसिद्धेः || ७७ || ततश्च तद्विषयविवेकविज्ञानाभावादेव शब्दब्रह्मवादिनः पुरुषसमवायिनीं तां मन्यन्त इत्याह- पुरुषे षोडशकले तामाहुरमृताह्वयाम् | एवं हि तेषां भ्रम इत्याह- केवलः परमानन्दो धीरो नित्योदितः प्रभुः || ७८ || नास्तमेति न चोदेति न श्रान्तो न विकारवान् | सर्वभूतान्तरचरः शब्दब्रह्मात्मको रविः || ७९ || भित्वा यं बोधखड्गेन निर्गच्छन्त्यविशङ्किताः | यमेनं सम्यग्ज्ञानाख्येन खड्गेन भित्वा विविच्य यथावद् ज्ञात्वा संसारान्निर्गच्छन्त्यात्मानः, सोऽयं शब्दब्रह्माख्यो रविरस्माद् रवेर्विलक्षण इति तेषां भ्रमः || ७८-७९ || अत्र सिद्धान्तमाह- तामेव वाणीं सूक्ष्माख्यामाहुरात्मविदो जनाः || ८० || एवशब्दो भिन्नक्रमः | आत्मस्वरूपविदस्तु शैवास्तां सूक्ष्माख्यां बिन्दुकार्यभूतां शब्दवृत्तिमेव मन्यन्ते, न तु पुरुषसमवायिनीम्, तस्याविकारित्वेन जडत्वात्, तत्समवाये पुरुषस्यापि विकारित्वाऽचेतनत्वादिदोषप्रसङ्गात् || ८० || इत्थं बिन्दुकार्यरूपाः शब्दवृत्तीः प्रदर्श्योपसंहरति- प्रत्यात्मनियता एता वृत्तयो बन्धनात्मिकाः | आसां च कार्यत्वेन जडत्वान्न चित्समवायो युज्यते, अपि तु बन्धनत्वमेवेत्यर्थः || तथापि- आभ्यो विविक्तमात्मानं नहि पश्यन्ति पुद्गलाः || ८१ || पुद्गला मलयुक्तात्मान इत्यर्थः | मलावृतत्वादात्मनां तद्विवेकज्ञानाभावेन तास्वेवात्मभ्रान्तिरिति भावः || ८१ || कुत एवमेषामयं भ्रम इत्यत्राह- परमात्मैव वागात्मा वागेवात्मेति च श्रुतेः | आत्मनो वाक्शक्त्यादिसंबन्धस्यार्थवादभूतानामासां श्रुतीनामर्थापरिज्ञानादेवं ते मन्यन्ते पुद्गलाः, मलयुक्तात्मान इत्यर्थः | वैखरी श्रोत्रजे बोधे मध्यमा सविकल्पके || ८२ || पश्यन्ती मध्यमोत्पादसमुद्योगेषु लक्ष्यते | वैखरी श्रोत्रग्राह्यैव | मध्यमा परामर्शज्ञानरूपत्वात् सविकल्पे लक्ष्यते | तस्या अपि समुत्पादनहेतुः पश्यन्ती || ८२ || अन्या तु - यदावृत्तिरशेषेण विलीना चित्तसंश्रया || ८३ || तदा सूक्ष्मा विशुद्धेव चिदाभात्यविवेकतः | सूक्ष्मा त्वभिधेयबीजत्वेन सर्वभूतेष्ववस्थिता पश्यन्त्या अपि कारणभूता चिदा अत्यन्तसंश्लेषात् तद्रूपेव भातीत्युक्तम् || ८३ || उक्तन्यायेन च- न सोऽस्ति प्रत्ययोऽणूनां यः शब्दानुगमादृते || ८४ || अनुविद्धमिह ज्ञानं सर्वं शब्देन जायते | किञ्च- सैषा चतुर्विधा वृत्तिर्निवृत्त्यादिकलाश्रयात् || ८५ || पञ्चधा भिद्यते भूयः कलास्ता बिन्दुवृत्तयः | सैषा शब्दात्मिका बिन्दुवृत्तिर्निवृत्त्यादिकलाश्रयाणामात्-मनां तारतभ्येन पञ्चधा ज्ञानाद्युपकारिकेत्यर्थः | निवृत्त्या-दयः पुनः कुत उत्पन्ना इत्यत्राह- कलास्ता इति | बिन्दोरेवावस्था-भूताः कलाकारवृत्तयः | ततः कलोपादानत्वेनापि बिन्दुसिद्धिरिति भावः || ८५ || ता एव नामतो दर्शयति- निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिश्च पञ्चमी || ८६ || शान्त्यतीताः कला एता याभिर्व्याप्तोऽध्वपञ्चकम् | एताश्च सदाशिवभुवनोर्ध्वं भुवनत्वेन स्थिता अपि शक्तिरूपेण समस्ताध्वव्यापिकाः स्थिता इत्याह- याभिर्व्याप्तोऽध्वपञ्चकमिति || ८६ || तत्त्वाध्वा भुवनाध्वा च वर्णाध्वा च पदात्मकः || ८७ || मन्त्राध्वा व्यापकस्तेषां कलाध्वा बिन्दुमाश्रितः | तत्त्वादिपञ्चाध्वव्यापकः प्रोक्तरूपकलाध्वा बिन्दुमुपादानत्वेनाश्रित इत्यर्थः | तत्र तत्त्वाध्वा शिवादिपृथिव्यन्तशुद्धाशुद्धतत्त्वरूपः | भुवनाध्वा तु अनाश्रितादिकालाग्न्यन्तभुवनात्मकः | वर्णाध्वा च मातृकैव | पदाध्वा व्योमव्यापिसंज्ञः | मन्त्राध्वा पुनः संहितामन्त्रा एव || ८७ || कथं पुनरेषामध्वसंज्ञा ? अत आह- त्यक्त्वैकमेकं संप्राप्य कलादिष्वजरामरम् || ८८ || पदमासाद्यते पुंभिरतोऽध्वानः कलादयः | यथा हि लोकेऽध्वसु क्रमादेकपदावष्टब्धं भूप्रदेशं मुक्त्वाऽन्यपदावष्टब्धं भूप्रदेशमासाद्य ग्रामादि प्राप्यते, तथा कलासु तत्त्वेषु वर्णेषु पदेषु मन्त्रेषु वाऽशुद्धविषयेषु कर्मभोगार्थम्, शुद्धविषयेषु सर्वज्ञत्वादिप्राप्त्यर्थं दीक्षायां विशिष्टसंबन्धात्मकं योजनं क्रियते | ततः कलादिवस्तुपद्धतयोऽध्वान इत्युच्यन्ते || ८८ || तेषु च- कलाध्वा वर्णितः पूर्वं निवृत्त्यादिविभेदतः || ८९ || व्याप्तिं तस्याभिधास्यामि साधाराङ्काधिदेवताम् | साकारकारणामात्मबिन्दुशक्तिशिवाश्रयाम् || ९० || आधारा हृदयादयः, अङ्कानि चिह्नानि वज्रादीनि, अधिदेवता अधिष्ठातृदेवताः सद्योजातादयः, आकारश्चतुरश्रादिः, कारणान्यधिपतयो ब्रह्मादयः | आत्मबिन्दुशक्तिशिवाश्रयामित्य-त्रात्मनां भोगाधिकरणत्वेन आश्रयभूतानाम् | किञ्च, बिन्दुरुपादानतया, शक्तिः करणतया आधारकत्वेन च, शिवः कर्तृतया आश्रयो यस्याः कलाव्याप्तेस्ताम् || ८९-९० || तत्र तावन्निवृत्तिव्याप्तिं संहारक्रमेणाह- निवृत्तौ पार्थिवं तत्त्वं पुराण्यष्टोत्तरं शतम् | तेषु कालानलादीनामनन्ताण्डस्य षड् बहिः || ९१ || प्राच्यादिषु दशस्वासन्नाशास्वेकैकशो दश | रुद्राणां शतसंख्यानां वीरभद्रस्य चोपरि || ९२ || भद्रकाल्याश्च भुवने क्षकारोऽर्णेषु कीर्तितः | तत्र रुद्रनामान्येव भुवनानामपि नामानि | भुवनादयश्च पद्धत्यामेवास्माभिर्विविच्य दर्शिताः | ग्रन्थविस्तरभयात् पद्धत्यन्तरेषु बहुशः प्रसिद्धत्वाच्च नात्र लिख्यन्ते || ९१-९२ || एकाशीतिपदा देवी प्रतिसर्गपदक्रमात् || ९३ || अष्टाविंशतिसंख्यैस्तु पदैरत्र प्रतिष्ठिता | एकाशीतिपदा देवी व्योमव्यापिलक्षणा शक्तिः | सा च प्रतिसर्ग-पदक्रमात् संहारक्रमेणान्त्यप्रणवादारभ्याष्टाविंशतिपदै-रत्र निवृत्तिकलायां व्यवस्थिता || ९३ || किञ्च- मन्त्रावजातहृदयौ तत्र सा तु परा कला || ९४ || भुवनादीनभिव्याप्य पञ्च पञ्चसु वर्तते | पञ्चाध्वनो व्याप्य तेष्वेव वर्तत इत्यर्थः || ९४ || इत्थं निवृत्तिव्याप्तिमभिधाय एतस्याकारादीनाह- पीतैषा चतुरश्रा च कठिना वज्रलाञ्छिता || ९५ || ध्यातव्योद्यदनेकार्चिर्मांसला हृदयाम्बुजे | तस्या निवृत्तिसंज्ञाकारणमाह- तत्प्रलीनाणुसंघस्य संकल्पो विनिवर्तते || ९६ || अनासाद्य फलं तेन निवृत्तिरभिधीयते | किञ्च- ब्रह्माऽत्र कारणं मन्त्रः सद्योजातोऽधिदेवता || ९७ || प्रतिष्ठाया अप्याह- प्रतिष्ठायां तु चत्वारि कलायामवनीं विना | भूतानि पञ्च तन्मात्राः पञ्च कर्मेन्द्रियाणि च || ९८ || पञ्च बुद्धीन्द्रियाण्यासन् मनोऽहङ्कारबुद्धयः | अव्यक्तमपि वर्णाश्च हादिटान्ता विलोमतः || ९९ || त्रयोविंशतिराम्नाताः षट्पञ्चाशत् पुराणि च | जलतेजोऽनिलाकाशबुद्ध्यव्यक्तेष्वहङ्कृतौ || १०० || अष्टावष्टौ पदान्येकविंशतिस्तत्र संख्यया | शिरो वामश्च मन्त्रौ द्वौ विष्णुः कारणमुच्यते || १०१ || सा तु शुक्लार्धचन्द्राभा नीलोत्पलदलाङ्किता | ध्यातव्या गलपद्मान्तर्बहुलालोकशालिनी || १०२ || तत्प्रलीनाणुसंघस्य संकल्पोऽर्थप्रसिद्धये | प्रतिष्ठितो यतस्तेन प्रतिष्ठा नाम सा कला || १०३ || वामदेवो ह्यधिष्ठाता वाच्यमन्त्रात्मको मतः | मननं सर्ववेदित्वं त्राणं संसार्यनुग्रहः | मननत्राणधर्मित्वान्मन्त्र इत्यभिधीयते || इति न्यायात् शिवशक्तितदनुगृहीतेषु मन्त्रशब्दो वर्तते, उपचारात्तु वाचकशब्दे प्रसिद्धः | ततोऽत्रापि सद्योजातवामदेवादिशक्तिभेदा एव अधिदेवतात्वेनोच्यन्ते | अत एव तासु निवृत्त्यादिषु भुवनरूपासु सद्योजातादिविग्रहः शिवोऽभिध्येयस्तत्पदप्राप्तिकामैरिति गुरवः || ९८-१०३ || विद्यायास्त्वाह- विद्यायां सप्त पुरुषो रागो नियतिसंयुतः || १०४ || विद्या कला च कालश्च मायातत्त्वानि तत्र तु | मायादिभुवनानां च विज्ञेयाः सप्तविंशतिः || १०५ || ञादयोऽत्र घकारान्ता वर्णाः सप्त विलोमतः | पदानि विंशतिर्मन्त्रौ शिखाघोरौ व्यवस्थितौ || १०६ || रुद्रोऽत्र कारणं मन्त्रो बहुरूपोऽधिदेवता | सा तु स्फुरदनेकार्चिस्त्रिकोणा स्वस्तिकाङ्किता || १०७ || ध्यातव्या तालुपद्मान्तर्नीलाञ्जनसमद्युतिः | तत्प्रलीनाणुसंघस्य संकल्पोऽशेषगोचरः || १०८ || सर्वार्थद्योतको येन तेन विद्येति गीयते | अशेषगोचरः स्वभुवनाधोवर्तिसमस्ताध्वविषयः, न तु सर्वविषयः, तस्य मलाभाव एव संभवात् || १०४-१०८ || शान्तौ तु त्रीणि तत्त्वानि दशाष्टौ भुवनानि च || १०९ || कथितान्यत्र वर्णास्तु गादिकान्तास्त्रयो मताः | पदान्येकादशाऽत्रासन् मन्त्रौ वक्त्रतनुच्छदौ || ११० || भुवनादीन्यभिव्याप्य पञ्च षड्बिन्दुलाञ्छिता | षट्कोणोदितमल्पान्तसहस्रकिरणद्युतिः || १११ || ध्यातव्या सा परा शक्तिर्भ्रूमध्यकमलोदरे | तत्प्रलीनाणुसंघस्य द्वेषरागाद्यभावतः || ११२ || संकल्पस्य प्रशान्तत्वाच्छान्तिरेषा निगद्यते | ईश्वरः कारणं तत्र मन्त्रस्तत्पुरुषाह्वयः || ११३ || तदधिष्ठायको ज्ञेयः पुरुषस्त्वधिदेवता | अत्र च त्रीणि तत्त्वानि पञ्चमी तु परा कला || ११४ || शिवतत्त्वात्मकं तत्र पुराणि दश पञ्च च | वर्णा विसर्गपूर्वा ये षोडश स्वरसंज्ञिताः || ११५ || ओमित्याद्यं पदं मन्त्राः शिवास्त्रेशानशब्दिताः | शान्त्यतीता च पञ्चाध्वागर्भिणी परमा कला || ११६ || चिन्तनीया महाकाशस्वरूपा मूर्धपङ्कजे | ईशानो मन्त्रराडेनामधितिष्ठति कारणम् || ११७ || देवः सदाशिवस्तत्र कलाध्वेति प्रकीर्तितः | व्यापको भुवनादीनामभिव्याप्तः स बिन्दुना || ११८ || बिन्दुः शक्त्या शिवेनैषा नान्येन व्याप्यते शिवः | त्रीणीति | विद्येश्वरसदाशिवाख्यानीत्यर्थः | अत एव शक्तितत्त्वस्य शिवतत्त्वेऽन्तर्भावं मन्यमानः शान्त्यतीताव्याप्तिमाह- पञ्चमी त्विति | व्यापक इति | उक्तदितराध्वनां व्यापकः कलाध्वा बिन्दूपादानक इत्युक्तः | कर्तृभूतः शिवः करणभूतया समवायिन्या शक्त्या बिन्दुमधितिष्ठति, शिवस्य तु नाधिष्ठाताऽस्तीत्यर्थः || १०९-११८ || एतदेवाह- स हि देवः समावृत्य स्वशक्त्याऽनन्यभूतया || ११९ || सर्वमाक्रम्य च तया विजानाति करोति च | अतः शक्तेः सर्वज्ञानक्रियारूपत्वं सिद्धम् || ११९ || इदानीं व्याप्तिस्वरूपं विचारयति- अन्यस्यान्यत्र सद्भावः सर्वदाऽव्यभिचारिणी || १२० || व्याप्तिराप्तपदार्थात्मलाभस्थितिनिबन्धनम् | अन्यस्य आकाशादेः, अन्यत्र कुड्यादावस्तित्वं सर्वकालमव्यभिचारिणी व्याप्तिः | सा च आप्तस्य पदार्थस्य आत्मलाभनिबन्धमुत्पत्तिनिबन्धनं स्थितिनिबन्धनं च भवति || १२० || अत एव- द्विधा सा सन्निधावेका परमात्मविधानतः || १२१ || तदेव दर्शयति- तत्र सन्निधिमात्रेण विदधात्यखिलं चितिः | यथार्को दिनचेष्टानां सन्निधेरुपकारकः || १२२ || चितिश्चैतन्यात्मिका शिवस्य समवायिनी शक्तिः, संकल्पमात्रेण सृष्ट्यादिकृत्यं विदधाति, सूर्य इव कमलविकासादि | तथा ह्यात्मनोऽपि स्वदेहस्पन्दनादौ सङ्कल्पमात्रेण कर्तृत्वं दृष्टम् || १२२ || ततश्च चिदधिष्ठानेनैव जडस्यात्मनि विधानरूपा व्याप्तिरित्याह- बिन्दुरात्मनि नादादीनध्वनः षडपि क्रमात् | विचित्रैः परिणामैस्तैर्विदधाति शिवेरितः || १२३ || यथा मृत्कलशादीनि कुलालाधिष्ठिता सती | अध्वनः षडपीति | कलावर्णपदमन्त्रतत्त्वभुवनात्मनः सर्वानेव बिन्दुरुत्पादयति | तत्त्वभुवनाध्वानौ शुद्धरूपावेव, अशुद्धयोस्तु तत्त्वभुवनाध्वनोर्मायोत्पन्नत्वात् || १२३ || किञ्च- येन यद् व्याप्यते वस्तु परिणामितया स्वयम् || १२४ || सा तस्य विकृतिः प्रोक्ता हेम्नस्तु मकुटो यथा | एनमेवार्थं साध्यविषये योजयति- बिन्दुना व्याप्यते योऽसौ षड्विधोऽध्वा कलादिकः || १२५ || सा तस्य विकृतिस्तेन व्याप्तत्वान्नादबिन्दुवत् | अशुद्धतत्त्वभुवनव्यतिरिक्तः षड्विधोऽध्वा कार्यत्वेन नादबिन्दुवत् स्वकारणं बिन्दुं गमयतीति भावः || १२५ || इदानीं बिन्दुसमवायवादिनां मतमुपन्यस्यति- केचिदाचक्षते बिन्दुः समवैति शिवे ततः || १२६ || दृक्शक्तिवत् क्रियाशक्तिरियं कुण्डलिनी परा | ज्ञानशक्तिवदन्यापि बिन्द्वात्मिका क्रियाशक्तिः शिवे समवैति, न तु मायावत् ततो व्यतिरिक्तेति भावः || १२६ || एवं च- द्वे शक्ती समवायिन्यौ शिवे ज्ञानक्रियात्मिके || १२७ || एतदेव प्रपञ्चयति, तत्र- आद्या तु संविद् विज्ञानं क्रिया कुण्डलिनी परा | आद्यायाः संविद् विज्ञानमिति च व्यपदेशः | अन्यस्यास्तु क्रिया कुण्डलिनीति च || १२७ || तयोस्तु- ज्ञानशक्त्या विजानाति क्रियया कुरुते जगत् || १२८ || शिव इत्यध्याहारः || १२८ || कुत इत्यत्राह- क्रिया हि फलदा पुंसां न ज्ञानं स्यात् फलप्रदम् | यतः कुलालादीनामपि क्रियाशक्तिरेव प्रयत्नात्मिका घटाद्युत्पादनरूपं फलमावहति, ज्ञानशक्तिस्तु तत्तदर्थविषयीकरण एव चरितार्था | ततः शिवोऽपि ज्ञानशक्त्या विजानन् क्रियाशक्त्या सर्वं करोतीति || ततश्च- ताभ्यां न विरहस्तस्य ते च न स्तः शिवं विना || १२९ || इत्थं मतान्तरेण बिन्दोः शिवसमवायं प्रदर्श्य तन्मतेनैव सदाशिवादितत्त्वान्यपि दर्शयति- तयोः प्रसरतोः साम्ये तत्त्वात्मा स्यात् सदाशिवः | ईशाऽधिकक्रियाशक्त्योर्विद्याज्ञानातिरिक्तयोः || १३० || तयोः क्रियाज्ञानयोः साम्येन प्रसरतोः सतोः क्रियाशक्तेरिव सदाशिवतत्त्वात्मपरिणामो भवति, क्रियाशक्त्याधिक्ये त्वीश्वरतत्त्वात्मा, ज्ञानशक्त्याधिक्येऽपि विद्यातत्त्वात्मा || १३० || किञ्च- तत्त्वेषु तेषु विज्ञानकेवलानां महात्मनाम् | भुवनानि विचित्राणि स्वभावललिताः प्रियाः || १३१ || भोगानप्यपरिम्लानानङ्गानि करणानि च | विदधाति शिवः शक्तेरनन्यायाः क्रियात्मनः || १३२ || नादादीनपि तेनैष कर्ता शुद्धाध्वनो मतः | उक्तार्थमुपसंहरति- अतो नायं पृथक् शक्तेः शक्तिरेव क्रियात्मिका || १३३ || समवेता शिवे बिन्दुरिति तत्राभिधीयते | अतोऽयं बिन्दुः शिवसमवायिन्या ज्ञानशक्तेर्नात्यन्तं पृथग्भूतोऽपि तत्समवेता क्रियाशक्तिरेवेति केचिन्मन्यन्ते | अथ तन्निरासायाह- तत्रेति | सिद्धान्तोऽभिधीयत इत्यर्थः || १३३ || तमेवाह- सोऽयमात्मनि तत्त्वौघमनेकभुवनावलिम् || १३४ || विदधद् विविधानल्पतनुभोगेन्द्रियादिकम् | बिन्दुराख्यायते युक्त्या परिणामी प्रधानवत् || १३५ || बिन्दोस्तत्त्वभुवनाद्युपादानत्वेन श्रुतेः प्रधानवद् मृदादिवद् वा परिणामित्वमवश्यमभ्युपेयम् || १३४-१३५ || किमत इत्यत्राह- परिणामि च यद्वस्तु तदवश्यं जडात्मकम् | यथा क्षीरं जडत्वेऽस्य समवायः कथं शिवे || १३६ || परिणामित्वाच्चास्य क्षीरादिवज्जडत्वं सिद्धम् | ततश्च नास्य चित्समवायो युज्यत इत्याह- जडत्व इति || १३६ || तत्समवायाभ्युपगमे शिवस्याप्यचेतनत्वं प्रसज्यत इत्याह- स हि तादात्म्यसंबन्धो जडेन जडिमावहः | शिवस्यानुपमाखण्डचिद्घनैकस्वरूपिणः || १३७ || नित्यमुक्तत्वादनुपमं सर्वविषयत्वादखण्डं चिद्घनं ज्ञानक्रियात्मकं घनं शरीरमेकमेव स्वरूपं यस्य तस्य शिवस्य | अयमर्थः- चेतनात्मिका शक्तिरेव शिवस्य देहः | सा चैकाऽपि ज्ञेयकार्याद्युपाधिभेदादुपचारेण ज्ञानक्रियाशक्त्या- दिव्यपदेशं भजते | पञ्चकृत्योपकारिभिरीशानाद्यवस्थाभेदैः शरीरकार्यं कुर्वाणोपचारेण शरीरत्वेनाप्युपचर्यत इति नास्याचेतनबिन्दुसमवायो युज्यते, तत्समवाये त्वचेतनत्वादिदोषप्रसङ्गात् || १३७ || अस्त्वचेतनः को दोष इति चेत्- यस्त्वेनं मन्यते मोहाज्जडधीर्जडमीश्वरम् | न तस्य युक्तिः शास्त्रं वा नात्मा नास्ति च देवता || १३८ || ईश्वरस्याचेतनत्वाभ्युपगमे जगत्कर्तृत्वेनेश्वरं साधयताऽनुमानेन, तस्य चेतनत्वादिस्वरूपप्रतिपादकैरागमै-श्च बाधः | किञ्च, न्यायस्य समानत्वाच्छिवसमानजातीयात्मानो-ऽप्यचेतनाः प्रसज्येरन् | तेषां च भोगमोक्षकर्तृतया देवतापि न सिद्ध्यति || १३८ || ततश्च- स वर्जनीयो विद्वद्भिः सर्वास्तिकबहिष्कृतः | ननु युष्मत्पक्षेऽपि शिवस्य कर्तृत्वेनाभ्युपगमात् क्रियावेशेन परिणामिताप्रसङ्गः ? अत आह- क्रियया हेतुभूतत्वात् क्रियाशक्तिश्चिदेव यत् || १३९ || नात्र क्रियावेशः, कर्तृत्वमपि तु क्रियायां शक्तत्वमेव | ततश्चायस्कान्तशक्तेरिवायसि शिवशक्तेः सन्निधिमात्रेण बिन्दावेव क्रियावेशः, अतः क्रियाहेतुभूतत्वाद् ज्ञानशक्तिरेव क्रियाशक्तिरुच्यत इत्यविरोधः || १३९ || अत्र पराशङ्कापूर्वकं जायतेऽध्वा यतः शुद्धः (श्लो० २२) इत्यादि प्रागुक्तमेव समर्थयति- बिन्दुरन्यो न मायोर्ध्वमचिदस्तीति चेन्मतम् | जायतेऽध्वा कुतः शुद्धः क्व वा लीयेत केन वा || १४० || षोढा भवेदयं तत्त्वभुवनादिविभेदतः | विज्ञानकेवलास्त्रेधा कथं कस्माच्च ते पुनः || १४१ || विमुच्येरन्नृते बिन्दोस्तद्वैचित्र्यविधायिनः | ननु चिद्रूपा शिवशक्तिरेव तस्य सर्वस्य हेतुरत आह- नहि चित् परिणामेन कुरुते तदशेषतः || १४२ || चैतन्यभावादित्यग्रे वक्ष्यते शक्तिनिर्णये | एतत्प्रागेव दर्शितम् | साधितं चास्माभिस्तत्त्वप्रकाशवृत्तौ विस्तरेण || १४२ || अत्र पराशङ्का- स्यादेष कल्पितानेकभेदः कार्यविशेषतः || १४३ || एक एव शिवो नैकशक्तिमानिति चेन्मतम् | ननूक्तवच्चेतनस्य शिवस्य तत्त्वादिरूपेण परिणामो न युज्यते, किन्त्वेकस्यापि शिवस्यानेकशक्तेः कार्यभेदादौपचारिकः सदाशिवादितत्त्वभेदः काल्पनिक एव, न तु पारमार्थिक एवेति यद्येवं भवतोऽभिमतम्, तत्सत्यमेव, अधिष्ठातृविषये शिवस्याधिष्ठातुरवस्थाभेदस्याधिष्ठेयभेदकृतत्वेनौपचारि-कत्वात् | अधिष्ठेयस्य शुद्धाध्वनस्तत्त्वभुवनादिभेदः सत्य एव, अन्यथोपचारस्याप्ययोगात् || १४३ || अथ चिद्विवर्ततया सोऽप्यसत्य एवेष्यते, तदानीम्- मायेयोऽपि तथा तु स्यादध्वा युक्त्यविशेषतः || १४४ || विवर्ताभ्युपगमस्याशुद्धाध्वनि संभवात् सोऽप्यसत्यतामापाद्येतेत्यर्थः || १४४ || अस्तु सोऽप्यसत्यः, को दोष इति चेत्, तदयुक्तम्, प्रमाणबाधादित्याह- यथास्वं हेतुभिः शास्त्रैः प्रत्यक्षैरपि योगिनाम् | प्रसिद्धानध्वनः शुद्धान् प्रत्याचष्टे कथं सुधीः || १४५ || अत्र च शुद्धाध्वन इत्युपलक्षणमशुद्धानामपि तत्त्वादी-नाम् | ततश्च शुद्धाशुद्धरूपस्य जगतोऽसत्यताभ्युपगमः सर्वप्रमाणबाधित इति तद्वादिनो दुर्बुद्धय एवेति भावः || १४५ || तथाहि- विशिष्टे परमोदारदातरीशे यथागमम् | प्रवृत्तिरुपभोगाय मोक्षाय च निगद्यते || १४६ || शास्त्रतस्तावद्भोगमोक्षप्रदे शिवे सिद्धे सति शास्त्रोपदिष्टक्रमेणैव भोगार्थं मोक्षार्थं वाऽऽत्मनां प्रवृत्तिर्यथाऽधिकारं दृश्यते || १४६ || किञ्च, भोगस्थानमपि साक्षाच्छिवकर्तृकमत्यन्तशुद्धं शास्त्रेषु श्रूयत इति दर्शयितुं श्रीमन्मतङ्गसूत्रं (वि० २६|६३) पठति- सदाशिवपदं योगाच्चर्यातो वाऽथ दीक्षया | प्राप्यते चित्तभेदेन मोक्षो वाऽथ चतुष्टयात् || १४७ || चित्तभेदशब्देनात्र ज्ञानं विवक्षितम् | ततश्च शुद्धाध्वनि कर्मणः प्रगमासंभवात् तज्जन्यस्य च भोगस्य सुखदुःखमोह-रूपत्वेनाशुद्धत्वात् सदाशिवादिभुवनवर्त्यपरमोक्षसंज्ञः शुद्धभोगः, परमोक्षश्च शिवसाम्यरूपो योगादिसहकृतदीक्षया प्राप्यते | तत्र मलपरिपाकमान्द्ये भौतिकदीक्षाभाजां भोगानन्तरं मोक्षप्राप्तिः, विशिष्टमलपरिपाकवतां नैष्ठिक-दीक्षाभाजां शरीरपातानन्तरम्, सद्योनिर्वाणदीक्षाभाजां च तदनन्तरमेव मोक्षप्राप्तिः | नन्वस्मिन् सूत्रे दीक्षाचर्याज्ञान-योगाख्यानि चत्वार्यपि समविकल्पानि भोगमोक्षसाधनानीति प्रतीयन्ते ? नैवम्, वाक्यार्थानभिज्ञानात् | एवं हि तत्र वाक्यार्थः- सदाशिवपदस्यात्रोपलक्षणत्वात् तत्तद्भुवनेश्वर-साक्षात्कारफलाद् योगात्, तत्तदाराधनात्मिकया वा चर्यया, तत्तद्भुवनयोजनात्मिकया दीक्षया च, तत्तद्भुवनेश्वरस्वरूप-निष्ठेन च ज्ञानेन तत्तद्भुवनेषु प्राप्तिर्भवत्येव, न तु समविकल्पतया | ज्ञानादिष्वपि दीक्षया विनाऽनधिकारात् तस्या एव प्राधान्यं यतः | मोक्षो वाऽथ चतुष्टयात् | अस्मात् समुच्चितान्-नैकस्माद् भोगो वेति वाशब्दार्थः | तथा च चर्यायोगयोस्तावज्-ज्ञानं विनानुष्ठानमेव नोपपन्नम्, नह्यज्ञातेऽर्थे योगश्-चर्या वा संभवति | ज्ञानमपि द्रव्यत्वान्मलादिबन्धानां चक्षुषः पटलानामिव चक्षुर्वैद्यव्यापाराद् दीक्षाख्यमीश्वर-व्यापारं विना न तेभ्यः पुंसां मोक्षं कर्तुं क्षममित्युक्तम् | अतो दीक्षैव मोक्षहेतुः | उक्तं च तत्रैव प्रकरणान्तरे- तस्मान्मन्त्रक्रिया मुख्या सेश्वरी मुक्ति मुक्तिदा (म० वि० ७|७४) इति | श्रीमत्षट्साहस्रिकायामपि- दीक्षैव मोक्षदा पुंसां चिदभिव्यक्तिकारिणी इति || १४७ || अत्र च सदाशिवपदस्य भोगाधिकरणत्वं श्रूयत इत्याह- इति भोगः समाख्यातः सदाशिवपदं महत् | भोगशब्देनोपचाराद् भोगाधिकरणमुच्यते | सदाशिवपदमित्यपि शुद्धाध्वभुवनोपलक्षणमित्युक्तम् || अस्य च भुवनरूपत्वेन कार्यत्वात् शुद्धाध्वत्वाच्च बिन्दुरेवोपादानकारणतया सिद्ध इत्युक्तमित्यभिप्रायेणाह- न तत्र मायोपादानं तनुभोगादि जायते || १४८ || विशुद्धत्वादतः सिद्धः शुद्धाध्वा चोपभुक्तये | तत्र सदाशिवपद इति || १४८ || अन्यथाऽपि शुद्धाध्वसाधनायाह- किञ्च माया प्रयोज्येन कर्त्रा केनाप्यधिष्ठिता || १४९ || उपादानं कलादीनां कलाव्याप्तस्वरूपिणी | यथा मृत्कलशादीनां कुलालेन तथा ह्यसौ || १५० || सत्कार्यपक्षाश्रयणेन कलादिपृथिव्यन्तं कार्यं कलाः, ताभिः शक्तिरूपाभिराश्रयत्वेन व्याप्यत इति कलाव्याप्तस्वरूपिणी माया मृदादिवदशुद्धत्वात् शिवप्रयोज्येन कर्त्रा क्षोभ्यते, न तु बिन्दुवत् साक्षाच्छिवेनेत्युक्तम्- शुद्धेऽध्वनि शिवः कर्ता प्रोक्तोऽनन्तोऽसिते प्रभुः || (कि० वि० ३|२७) इति | कुलालस्यापि शिवप्रयोज्यत्वं दर्शयति- तथा हीति || १४९-१५० || प्रयोज्यः पशुभावेन कर्ता हेतुर्महेश्वरः | पशुत्वादेव कुलालः प्रयोज्यः कर्ता, निर्मलत्वाच्छिवः प्रयोजककर्तेत्यर्थः || तथाहि- अज्ञो जन्तुरनीशोऽयमात्मकार्येऽपि कीर्तितः || १५१ || ईश्वरप्रेरितः कुर्याच्छुभं वा यदि वाऽशुभम् | इत्थं दृष्टान्तं प्रसाध्य दार्ष्टान्तिके योजयति- प्रयोज्यत्वाच्छरीरादियुक्तोऽनन्तः कुलालवत् || १५२ || मायायाः क्षोभको येन शरीरेणेन्द्रियेण च | देशादिना स सिद्धोऽध्वा विशुद्धः शिवशासने || १५३ || येनेति यन्मयेनेत्यर्थः | देशादिनेति भुवनाद्यात्मनाऽऽश्रयेण | आदिग्रहणात् प्रागुक्तेन सविकल्पकज्ञानहेतुना शब्देन च युक्तोऽनन्तः कर्ता | स शुद्धोऽध्वा शिवशास्त्रे सिद्ध इति || १५२-१५३ || इत्थं मतान्तरनिराकरणेन परिग्रहशक्तिरूपां शुद्धाध्वोपादानभूतामचेतनां परबिन्दुसंज्ञां महामायां प्रसाध्य मतान्तरेणाऽशुद्धाध्वनोऽपि बिन्दूपादानत्वं मायायाश्च कार्यत्वमुपन्यस्यति- अवस्थामपरे बिन्दोर्मायामाहुर्विपश्चितः | कलाव्याप्तस्वरूपा च पुद्गलाधिष्ठिता च यत् || १५४ || यद्यस्माच्छुद्धविद्यातत्त्वाद् मायाऽपि बैन्दवीभिः कलाभिर्व्याप्ता पश्चात्माधिष्ठिता च, तस्मात् तामपि बिन्दोरेवावस्थां कार्यरूपां सूक्ष्मां परिणतिमाहुः || १५४ || तथैव प्रकृतिस्तेषां स्थूला सूक्ष्मा परेत्यसौ | महामाया भवेत् त्रेधा तत्र स्थूला गुणात्मिका || १५५ || बुद्ध्यादिभोग्यजननी प्रकृतिः पुरुषस्य सा | प्रकृतिमपि तस्यैव स्थूलमवस्थान्तरमाहुः | एवं तेषां बिन्द्वेकोपादानवादिनां सा महामाया स्थूलसूक्ष्मपरभेदेन त्रिधा भिद्यते | स्थूला सा बिन्द्ववस्था सत्त्वरजस्तमोरूपा पुरुषस्य बुद्ध्यादीनि भोगसाधनानि तत्त्वानि भोग्यांश्च विषयान् परम्परयोत्पादयन्ती प्रकृतिरुच्यते || १५५ || सूक्ष्मा कलादितत्त्वानामविभागस्वरूपिणी || १५६ || जननी मोहिनी माया सर्वाशुद्धाध्वकारणम् | सूक्ष्मा तु मायासंज्ञा भोक्तृत्वहेतूनां कलादितत्त्वानां सर्वस्य च प्रकृत्यादेरपि तत्त्वभुवनात्मनस्तद्वर्तिनश्च साक्षात् परम्परया च कारणं भवति || १५६ || किञ्च- मन्त्रयोनिः परा माया नित्या कुण्डलिनी तु या || १५७ || उपादानं शरीराणां विद्याविद्येश्वरात्मनाम् | परा तु मायोपादानमिति | मायायाश्चोपादानभूता महामायेत्यर्थः | सा च नित्या, परमकारणत्वात् || १५७ || ततश्च- कार्यात्मिका सा मायेयं परिणामवती च यत् || १५८ || शरीरेन्द्रियसंयुक्तं कर्तारं साधयेत् ततः | एवं च- विशुद्धस्याध्वनः सिद्धिरनिवार्याऽवतिष्ठते || १५९ || येषां माया मतेऽनित्या कलाविद्यादिकारणम् | न तेषामसितो मार्गः कलाशुद्ध्या विशुद्ध्यति || १६० || इत्थं परमतेन मायायाः कार्यत्वं प्रसाध्य मायाया अनित्यत्वे दूषणमाह- येषामिति | मायाया अनित्यत्वेन शुद्धाध्वो-पादानत्वानभ्युपगमे बिन्दुकार्यभूतकलाध्वशुद्ध्या मायाकार्यस्याशुद्धस्याध्वनः शुद्धिर्न भवेत्, अन्यस्य शुद्ध्याऽन्यस्य शुद्ध्ययोगात् | ततस्तच्छुद्ध्यन्यथानुपपत्त्या शुद्धाध्वापि बिन्दुकार्य एवाभ्युपगन्तव्यः || १५९-१६० || एतदेवाह- कला हि शोधिताः पञ्च निवृत्त्याद्या विशुद्धये | तत्त्वादीनामतो बिन्दोः कार्यमध्वा विशेषतः || १६१ || बिन्दुकार्यत्वे ह्यपादानभूतकलाशुद्ध्या सर्वस्य तत्त्वादेः शुद्धिरनिवार्येति भावः || १६१ || ननु व्यापिकानां कलानां शुद्ध्या व्याप्यस्य तत्त्वादेः शुद्धिर्भविष्यतीत्यत आह- न तु व्यापकमात्राणां शुद्ध्या शुद्धिर्मताऽध्वसु | अनुपादानरूपाणां कलानां नित्यशुद्धयोः || १६२ || शिवशक्त्योर्विशुद्ध्यैव सदा शुद्धिप्रसङ्गतः | इत्याख्याता महामाया सर्वाध्वप्रकृतिः परा || १६३ || आचार्यैस्तैरशेषाध्वकार्यवादविचक्षणैः | अत्र च मायाया अनित्यत्वे प्रमाणाभावात्, शुद्धस्य बिन्दोरशुद्धोपादानत्वायोगात्, नित्यत्वश्रुतिविरोधाच्चायं पक्षः प्रयत्नेन निराकृत इति मत्वा सिद्धान्तज्ञानिनामाचार्याणां मतेन मायाया नित्यत्वसाधनायाह- अन्ये तु कथयन्त्यत्र मायामध्वस्वनश्वरीम् || १६४ || उपादानं कलादीनामभिव्याप्तां च बिन्दुना | तदुक्तं श्रीमत्स्वायम्भुवादौ- मायातत्त्वं जगद्बीजमवि-नाश्यव्ययात्मकम् इत्यादि | श्रीमद्रौरवेऽपि- विद्याराजाधिराजेशो मायां विक्षोभ्य मन्त्रराट् | कलामुत्पादयामास (१|६-७) इत्यादि || १६४ || ननु मायाया अकार्यत्वेऽप्यशुद्धाध्वनो व्यापकमात्रकला-शुद्ध्या शुद्धिर्भवेदिति चेदतिप्रसङ्गादित्युक्तम्, अत आह- शुद्धिश्च तादृशी ज्ञेया तयोरागमवेदिभिः || १६५ || यया व्यापकशुद्ध्यैव विशुद्धिरितराश्रया | व्यापककलाशुद्ध्या व्याप्यस्याध्वमात्रस्य शुद्धिर्दीक्षायां कर्मभोजनादिद्वारेणोपपद्यत इत्यागमेषु श्रूयते | अयं चात्राभिप्रायः- कर्मसद्भावे ह्यात्मनां कलादिकोऽशुद्धाध्वा बन्धत्वेनावतिष्ठते, तस्य शुद्धिस्तान् प्रति बन्धकत्वनिवृत्तिरेवाभिमता | सा च मलपरिपाकयुक्तस्य दीक्षया कर्मक्षयादुपजायते | तदुक्तं श्रीमत्किरणे- अनेकभविकं कर्म दग्धबीजमिवाणुभिः | भविष्यदपि संरुद्धं येनेदं तद्धि भोगतः || (वि० ६|१९) इति | श्रीमत्स्वायम्भुवेऽपि- धर्माधर्मक्षय-करी दीक्षा इति | अतश्च सर्वेष्वध्वसु प्रत्येकमितराध्वान्तर्भावेन भोगभोजनादिरूपा दीक्षोपपद्यत इति व्यापककलाध्वशुद्ध्या व्याप्यस्याशुद्धस्यापि तत्त्वभुवनादेरध्वनः साधारणरूपस्य तं प्रति बन्धकत्वनिवृत्तिलक्षणा शुद्धिरुपपद्यत इति न कश्चिद्दोषः || १६५ || इत्थं मायाया नित्यत्वेऽपि दोषाभावमुक्त्वा पुनरपि बिन्दुमेव विशेषयति- मन्त्रयोनिर्महामाया या परिग्रहवर्तिनी || १६६ || शिवस्य शक्तिराक्रान्ता यया सर्वेऽपि पुद्गलाः | वाच्यमन्त्राणामुत्पत्त्ययोगाद् वाचकमन्त्राणां शब्दोपादानत्वेन योनिर्महामाया | सा च शिवस्य परिग्रहशक्तिरुच्यते, यया सर्वेऽपि पशवः प्रोक्तवन्नादादिद्वारेणाऽधिष्ठिताः || १६६ || किञ्च- सेयं क्रियात्मिका शक्तिरीश्वरी सर्वदोदिता || १६७ || वर्तमाना पशुष्वेव पाशत्वेन व्यवस्थिता | एषा च सर्वदेश्वरस्य क्रियाशक्त्यधिष्ठितत्वात् शुद्धकार्योत्-पादनार्थमात्मनां च क्रियाशक्त्यविवेकेन स्थितत्वाच्च कैश्चिद् भ्रान्त्या क्रियाशक्तिरैश्वरीति प्रोक्ता, न तु परमार्थतश्चित्सम-वायिनी क्रियाशक्तिः, उपादानत्वेनाचेतनत्वादित्युक्तम् | अत एव मुक्ताणुषु न प्रवर्तते, पशुष्वेव वर्तमानत्वात् | इयमपि पाशतयैव स्थिता, न तु पाशातीतशिवसमवायेनेति || १६७ || अतश्च- पशून् वर्तयते नित्यं नानायोनिष्वनिश्चिता || १६८ || सेयं क्रियाशक्तिरव्यतिरेकेण ज्ञाता सती पशूनशुद्धासु योनिषु योजयति | तद्विवेके तु नाशुद्धयोनिप्राप्तिरित्यर्थः || १६८ || किञ्च- स्वपरामर्शवीर्येण भोगमोक्षौ प्रयच्छति | स्वकीयेन परामर्शज्ञानात्मना वीर्येण भोगमोक्षौ प्रयच्छति, भोगमोक्षयोः परम्परयोपकारिणी भवतीत्यर्थः || माया तु भोगोपकारिका, अनात्मादिष्वात्मादिज्ञानहेतुत्वात्, तत्रास्य भोगोपकारित्वं दर्शयति- सा भोगसाधनोपायप्रत्ययोदयहेतुना || १६९ || शब्दानुवेधेन सदा मोहयेदविवेचिता | अविवेचितस्वरूपा महामाया भोगसाधनग्रहणोपायभूतसविकल्पकज्ञानोत्पत्तिहेतुना शब्दानुवेधेन सर्वदा पशून् मोहयति || १६९ || तदानीं च- सर्वथैवामृतप्राप्तेः पृथक्कारं प्रतन्वती || १७० || ततोऽभूद् विषयाभोगप्रीतिलालसचेतसः | विषयाभोगश्रद्धालोः पुंसः सर्वथा मोक्षप्राप्तेर्बहिर्भावं तदानीं करोतीत्यर्थः || १७० || मोक्षोपकारकत्वमपि दर्शयति- ज्ञानं परामृतोपायहेतुः परिकरः पशोः || १७१ || परमोक्षप्राप्त्युपायस्य दीक्षाख्यस्य तदुत्तरकालानुष्ठेयस्य च नित्यादिकर्मणः कारणं परिच्छेदज्ञानमेव, अज्ञातविषयेऽनुष्ठानासंभवात्, निर्बीजदीक्षायामप्याचार्यस्य ज्ञानप्रधानत्वात् || १७१ || तस्य च शिवादिवस्तुविषयकज्ञानस्य शास्त्रद्वारेण बिन्दुरेव संपादक इत्याह- तच्च शब्दानुवेधेन शब्दराशेरभूदसौ | शब्दराशिश्च बिन्दूत्थो बिन्दुर्नादादसावपि || १७२ || बिन्दोरनाहतादेष कारणं शुद्धवर्त्मनः | अनाहतबिन्दुरिति शुद्धाध्वयोनेर्महामायायाः संज्ञा | तस्याश्च नादबिन्द्वादिक्रमेण शब्दोत्पत्तिरित्युक्तम् || १७२ || तत्र भोक्तृतया भोगैः शरीरेन्द्रियगोचरैः || १७३ || मलः कर्म च माया च विशुद्धमनुमीयते | तत्र च विद्येश्वरादीनां भोक्तृत्वश्रुतेर्भोगस्य शरीराद्यविनाभावादशुद्धभोगसाधनशरीरादिहेतूनां मलमायाकर्मणां तत्रासंभवात् शुद्धभोगसाधनैः शरीरादिभिर्भोक्तृत्वहेतुः शुद्धोऽधिकारमलः शुद्धं चेश्वरसेवात्मकं सहकारि कर्म, शुद्धा च माया शरीराद्युपादानमनुमीयते | तयोश्चाधिकारमलेश्वरसेवात्मक- कर्मणोर्महामायाभुवनप्राप्तिस्तत्कारणभूतदीक्षा वा संपादिका, मायोत्तीर्णानां विच्छिन्नावारकमलानामेव तत्संभवात् || १७३ || एतदेवाह- मायैव कारणं शुद्धाशुद्धयोर्मलकर्मणोः || १७४ || अशुद्धस्य त्वनात्मादावात्माद्यभिमानरूपस्य पुंस्त्व- मलस्याशुद्धभोगहेतोश्चाश्वमेधब्रह्महत्यात्माद्यनुष्ठान-रूपस्य कर्मणोऽशुद्धमायाकार्यसंपर्कः कारणमित्याह- अशुद्धयोरशुद्धैव मायाऽतो द्विविधा मता | न त्वाणवमलस्य सा हेतुरिति व्याख्येयम्, तस्यानाद्यावारकत्वेन श्रवणात्, आदिमत्त्वे च आवरणकारणासंभवात् | ननु कर्माप्येवमनादिकम् (कि० वि० ३|७) इति श्रुतेः, कर्मसद्भाव एव मायाप्रवृत्तेश्च कथं कर्मणो माया कारणमुच्यते, सत्यं प्रवाहानादिरेव कर्मशरीरप्रबन्धः, कर्माभावे मायायाश्चाप्रवृत्तिरेव, तथापि कर्मानुष्ठानस्य देहवतामेव संभवाद् वासनारूपस्य च कर्मणो बुद्धिद्वारेण मायास्थत्वात् तथोक्तमित्यविरोधः | कर्मापि कृष्यादिकर्मवत्, प्रकृतिसंस्कारकत्वात् पुरुषसंस्कारकत्वे तस्य विकारित्वप्रसङ्गाद् बुद्धौ गुणत्वेन वर्तत इयुक्तं श्रीमन्मतङ्गादौ | अतश्च मायामहामायात्मकद्वयं नित्यसिद्धमित्याह- मायाऽत इति | एवं विसदृशकार्यत्वाद् मायाया बिन्दुकार्यत्वं न संभवतीति भावः || बिन्दोर्विवेके सहसा च्छिद्यते मलकम्बुकः || १७५ || मलस्य द्रव्यत्वेन ज्ञानानिवर्त्यताया उक्तत्वात्, दीक्षया क्षपितमलानामेव शुद्धाध्वभुवनप्राप्तेः शास्त्रद्वारेण महामायापुरुषविवेकज्ञानस्य संभवाच्चाधिकारमलक्षयस्तद्विवेके भवति || १७५ || मायापुरुषविवेके तु धर्माधर्मतुषक्षयः | यदाहुः- ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते (भ० गी० ४|३७) इति | ततश्च कर्मक्षयेऽपि परिणतमलानां विज्ञानकेवलत्व-मेव | प्रकृतिपुरुषविवेके तु तदपि नास्त्येव | यदुक्तं सिद्धगुरुभिः- गुणतत्त्वोर्ध्वभोगस्य कर्मणोऽनुपलब्धितः | कैवल्यमपि सांख्यानां नैव युक्तमसंक्षयात् || (प० मो० का० ५३) इति || ततश्च- उत्तीर्णमायमात्मानं महामायानुषङ्गिणम् || १७६ || उद्दिश्य शक्तिरीशस्य बिन्दोः क्षोभाय वर्तते | साधकदीक्षाभाजं शुद्धभोगाभिलाषिणं प्रति शिवशक्तिर्बिन्दोः क्षुब्धात् शरीरादीन्युत्पादयतीत्यर्थः || १७६ || स च शक्त्या क्षोभितः- यथोदधिरुपर्येव विकरोत्यनिलेरणात् || १७७ || तथैकदेशतो बिन्दुः शक्तेर्व्याप्नोति चाखिलम् | शक्तेः प्रेरणाद् घृतकीटन्यायेनैकदेशेन बिन्दुर्विकरोति, न तु क्षीरदधिन्यायेन सर्वात्मना, तथा सत्यनित्यत्वप्रसङ्गादनवस्थाप्रसङ्गाच्चेत्यर्थः | किञ्च, स्वकार्यरूपाभिः कलाभिः प्रागुक्तं विश्वं व्याप्नोति चेत्यर्थः || १७७ || अयं च न्यायोऽन्यत्रापि समान इत्याह- एवं मायैकदेशेन विकरोति तथाखिलम् || १७८ || व्याप्नोति कार्यमात्मीयं तथैवाव्यक्तमिष्यते | अयमत्र बिन्दोर्मायाप्रधानयोर्विशेषो यत् स्वकार्यमेवैते व्याप्नुवतः, न तु स्वस्मादूर्ध्वम्, तत्र प्रगमासंभवात् | अतः शुद्धस्य त्वशुद्धाध्वन्यपि व्यापकत्वात् प्रगमः संभवत्येव || १७८ || इदानीं बिन्दोरवस्थान्तराधिष्ठानादौपाधिकः शिवस्य लयादिभेद इत्याह- तत्राक्षुब्धे भवेद् भोगो बिन्दावानन्दरूपिणि || १७९ || क्षुब्धेऽधिकारो देवस्य लयोऽतिक्रान्तबिन्दुकः | तत्रानन्दरूपिणि समन्ताद्व्याप्तिसमृद्धिभाजि बिन्दावक्षुब्धे शिवशक्त्या क्षोभनिमित्ते विषयीकृते प्रसवौन्मुख्यभाजि सति शिवशक्तेरुद्योगात् पालनात्मको भोगो भवति | क्षुब्धे तूत्पादितकार्ये शक्तेर्व्यापृतत्वादधिकारः | उपसंहृतकार्ये स्वरूपनिष्ठे शक्तेरप्युपसंहृतव्यापारत्वाल्लयः || १७९ || ततश्च शिवशक्त्योर्व्यापारभेदादौपचारिको भेद इत्याह- एकैव खलु चिच्छक्तिः शिवस्य समवायिनी || १८० || त्रिविधोपाधिसंभेदाल्लयभोगाधिकारिणी | तयैतयाऽभिसंबन्धादेको देवस्त्रिधा भवेत् || १८१ || शिवः सदाशिवोऽधीशो लयभोगाधिकारवान् | यदुक्तम्- अधिकारी स भोगी च लयी स्यादुपचारतः इति | अनेन बिन्दुपरीक्षोपसंहारेण शक्तिपरीक्षोपक्षिप्तेति मन्तव्यम् || १८०-१८१ || अथ शक्तिलक्षणमाह- शक्तिरप्रतिघोदारमरीचिनिचयात्मिका || १८२ || नित्योदितानवच्छिन्ना निर्विकल्पस्वरूपिणी | निरावरणनिर्द्वन्द्वनिरुपादानवैभवा || १८३ || विविधोपाधिसम्बन्धविवर्तभिदुरोदया | शान्तोदितप्रपञ्चादिबिन्दुव्याप्तिपटीयसी || १८४ || परानपेक्षानन्यात्मप्रकाश्या सर्वतोमुखी | आदिमध्यान्तरहिता रहिता सर्वबन्धनैः || १८५ || निष्ठा काष्ठा परा सूक्ष्मा वस्तुमात्रातिलालसा | मरीचिनिचयोऽत्र ज्ञानक्रियासमृद्धिः, लयावस्थायामस्या औपचारिकभेदस्याप्यभावाद् निर्विकल्पस्वरूपिणी सा कथिता | विविधेति विचित्रकार्योपाधिसम्बन्धादपारमार्थिकेन भेदशीलोदयेन युक्ता, कृत्यभेदाधिकारावस्थायां भिन्नेव लक्ष्यमाणेत्यर्थः | किञ्च, सा प्रोक्तप्रपञ्चादिभूतबिन्दुव्याप्तिदक्षा मलरहितत्वेन परानपेक्षत्वादनन्यप्रकाश्या | अत एवात्मशक्तिवैलक्षण्येन सर्वबन्धनविरहादिगुणयुक्ता | काष्ठा निरतिशया | निष्ठा अतिशयावधिभूता | परा सूक्ष्मा अत्यन्तसूक्ष्मा | अतिलालसा सर्वानुग्रहणशीला च बोद्धव्या || १८२-१८५ || सा च शिवस्य ज्ञानक्रियात्मकं चैतन्यमेवेत्याह- चितिरेव मताम्लानमहिमा परमेष्ठिनः || १८६ || शिवस्यानाहितापूर्वविशेषस्यैव सन्निधौ | तयैतयाऽभिसम्बन्धविशेषान्नित्यरूपया || १८७ || विकरोति विचित्राभिर्वृत्तिभिः स्थगयन्निव | बिन्दुरापूरयन्नादैराणवं चिन्नभो मुहुः || १८८ || सरिद्वानभिसम्बन्धादिन्दुनार्कस्य सन्निधौ | विकरोति यथा लोलैः कल्लोलैर्नादयन्नभः || १८९ || कर्तृभूतस्य शिवस्य सन्निधौ करणभूतया शक्त्या संबन्धाद् बिन्दुः कार्योत्पादक इत्याह- शिवस्येति | बिन्दुः प्रतिपुरुषं भिन्नैर्नादैरात्मनां चैतन्यमापूरयतीत्युक्तं प्रागेव || १८६-१८९ || नन्विन्द्रियादिरहितस्य कर्तृत्वं न युज्यते ? तन्न, स्वदेहस्पन्दादावात्मनः शक्तिमात्रस्य करणस्य दर्शनात्, अस्याश्च शिवसमवायेन परिणामाभावात् कार्यभेदादौपचारिक एवेच्छाज्ञानक्रियादिभेद इत्याह- सैषा शिवाश्रया शक्तिरमोघा बलशालिनी | एकानेकविभागेव कार्यभेदाद् विभाव्यते || १९० || यथैका सवितुः शक्तिर्दानादानादिकर्मभिः | एतदेव प्रपञ्चयति- इच्छाकार्यमनिच्छापि कुर्वाणेच्छा चिदव्यया || १९१ || ज्ञानमज्ञानरूपैवमक्रियापि क्रिया तथा | ज्ञेयकार्याद्युपाधिभेदात् तस्या ज्ञानाक्रियादिभेद इत्यर्थः || १९१ || किं बहुना- यद् यस्याः कार्यमाम्नायलोकाभ्यामवधारितम् || १९२ || तदेतद्रूपिणी शक्तिः कुरुतेऽचिन्त्यवैभवा | अनेनास्याः सर्वाधिष्ठानमुक्तम् | यदाहुः- न सा भावकला काचित् सन्तानद्वयवर्तिनी | व्याप्त्री शिवकला यस्यामधिष्ठात्री न विद्यते || इति | अविकारेण सर्वार्थकारित्वमेव दृष्टान्तेन द्रढयति- कामानपि बहूनेकः कल्पवृक्षः प्रयच्छति || १९३ || चिन्तामणिश्च विविधानचिन्त्यमहिमा यथा | तथाऽनाहितसंस्कारविशेषैकस्वरूपिणी || १९४ || चिदचिन्त्या विभोः शक्तिरशेषार्थक्रियाविधौ | चेतनत्वान्नास्या विकार इत्याह- न जायते न म्रियते क्षीयते न च वर्धते || १९५ || चितिः शक्तिः प्रकाशत्वादजडत्वाच्च अमुमेवार्थं व्यतिरेकेण साधयति- यत् पुनः | उत्पद्यते नश्यति वा चिनोत्यपचिनोति च || १९६ || तदप्रकाशरूपं वा जडं वा दृश्यते यथा | शरीरादि तथा नासौ तस्मान्नैषा विकारिणी || १९७ || यतोऽसावप्रकाशरूपा जडा च न भवति, ततो न विकारिणीत्यर्थः || १९६-१९७ || एवमस्याः क्षीरदधिन्यायेन सर्वात्मना परं विकारो निराकृतः, इदानीमुक्ताभ्यामेव हेतुभ्यामेकदेशपरिणामोऽपि नास्तीत्याह- ताभ्यामेवोपदेशाभ्यां परिणामो निराकृतः | बोधशक्तेरबोधस्य परिणामो हि दृश्यते || १९८ || एतदेव प्रपञ्चयति- परिणामाऽपरिम्लानं शाश्वतं शिवमाश्रिता | समवायेन तादात्म्यान्नहि चित् परिणामिनी || १९९ || परिणामहीनं नित्यं चेतनं शिवं समवायेन तादात्म्यलक्षणसम्बन्धेनाश्रिता चिच्छक्तिर्न परिणामिनी भवितुमर्हति | यच्छ्रूयते- शक्तिर्नाऽचेतना चितः (मृ० वि० ३|४) इति || १९९ || ततश्च- नित्यैषाऽशेषकार्याणां कारणत्वाद् यथेश्वरः | सत्त्वे कारणशून्यत्वादपि बिन्दुवदिष्यते || २०० || अस्याश्चानित्यत्वेऽनवस्थाप्रसङ्ग इति भावः || २०० || तथाहि तां समाश्रित्य सन्तोऽन्ये शाश्वती सती | यत्सिद्धौ जगतः सिद्धिर्यदसिद्धौ न किञ्चन || २०१ || तत्सत्ता साध्यते कस्य केन वा प्रतिपाद्यते | यस्या उपादानभूतबिन्द्वाद्यधिष्ठातृकर्तृशक्तेः सद्भाव एव शुद्धाशुद्धमयस्य कार्यरूपस्य जगतः सिद्धिर्नान्यथा, तस्याः सत्ता केनान्येन प्रमाणेन साध्यते ? कार्योत्पत्त्यन्यथानुपपत्त्यैव सा सिद्धेत्यभिप्रायः || २०१ || इत्थं शक्तिं प्रसाध्य चिदचिदद्वैतवादिनां मतमुपन्यस्यति- तामेतामद्वयामेके कीर्तयन्ति विपश्चितः || २०२ || चितिं सदसदाकारविवर्तोल्लासशालिनीम् | विपश्चित इत्याक्षेपे | एवं हि ते मन्यन्ते- शक्तिरेव चिद्रूपा सत्यभूता | सा च विवर्ततया शुद्धाशुद्धभुवनादिरूपानर्थानसत्यभूतान् प्रकाशयति | ततश्च द्वैतप्रतिभासो द्विचन्द्रादिज्ञानवद् भ्रान्त एवेति || २०२ || एतदेव दृष्टान्तेनाह- यथा रज्जुरहिच्छिद्रमालाविभ्रमकारिणी || २०३ || न तानुत्पादयत्यर्थानसतः प्रथयत्यसौ | ज्ञानमात्रं तथैवेयमेकानेकायते भ्रमात् || २०४ || ततश्च- सेयं भ्रान्तिरनालम्बा सर्वन्यायविरोधिनी | विचाराल्लूनमूलत्वादहेतुर्बन्धमोक्षयोः || २०५ || तस्मान्न वद्धो बन्धोऽन्यो बन्धकश्च विचारतः | नित्यमुक्ताद्वयानन्तसंविदेवास्ति केवलम् || २०६ || कथं पुनरयं भेदप्रतिभासोऽपि दृश्यते | व्यवहारस्तु भेदात्मा विज्ञेयो वटयक्षवत् || २०७ || कथमप्रामाण्यं भेदावभासस्यात आह- तथाहि भेदो भावानां न प्रत्यक्षोऽक्षधीर्यतः | कुत इत्यत्राह- अक्षधीरिति | बालमूकादिविज्ञानतुल्यैवाकल्पनार्थजा || २०८ || निर्विकल्पविज्ञानस्यैवार्थसामर्थ्यजनितस्य प्रत्यक्षत्वात् तस्यैव प्रामाण्याभ्युपगमाद् भेदस्य च विकल्परूपत्वान्न प्रत्यक्षसिद्धत्वमित्यर्थः || २०८ || किञ्च- सा विधात्री पदार्थानां न निषेधति किञ्चन | तदुक्तम्- आहुर्विधातृ प्रत्यक्षं न निषेधृ विपश्चितः (ब्र० सि० २|१) इति | ततश्च भेदस्येतरेतराभावग्रहणपूर्वकत्वाद् भवाविषयेण प्रत्यक्षेण ग्रहणं नोपपद्यत इति भावः || सविकल्पकं तु- यद् विशेषणविज्ञानं शब्दसंस्कारपूर्वकम् || २०९ || देशकालाद्यपेक्षाक्षैरुदपादि न तत्पुनः | अर्थसामर्थ्यजं ज्ञानं स्मृतिसङ्कल्पवन्मतम् || २१० || यत्पुनः शब्दानुवेधेन सविकल्पं ज्ञानं देशकालाद्यपेक्षाक्षैरुत्पाद्यते, तदिदं देशकालाद्यपेक्षत्वान्नार्थसामर्थ्यजन्यं स्मृतिप्रतिभासादिवत्, ततस्तत्प्रमाणमिष्यते | यदाहुः- कल्पनापोढमभ्रान्तं प्रत्यक्षम् (न्या० वि० १|४) इति || २०९-२१० || अत एव- नानुमानागमौ तत्र प्रमाणं तदभावतः | प्रत्यक्षविषयत्वाभावतो भावानां भेदे नानुमानागमावपि प्रमाणं भवितुमर्हतः || तथा हि- प्रत्यक्ष एव तावर्थे विकल्पविषयावपि || २११ || यतस्तावपि प्रत्यक्षसिद्ध एवार्थे विकल्पमुत्पादयन्तौ प्रमाणीभवितुमर्हतः, संबन्धग्रहणादेः प्रत्यक्षपूर्वकत्वाद्विकल्परूपत्वाच्च | भेदस्य तु प्रत्यक्षेण ग्रहणं न संभवतीत्युक्तम्, अतः स्वप्नादिज्ञानवदसत्यभूत एवायं भेदप्रतिभासः || २११ || यत एवायम्- स्वोत्थैर्निबध्यते तस्माच्छङ्कापाशैर्विमूढधीः | मुच्यते तेभ्य एवायं बन्धमोक्षौ न वस्तुतः || २१२ || इत्थं तन्मतमुपन्यस्य सिद्धान्तमुपक्षिपति- इत्यद्वैतग्रहाविष्टाः प्रलपन्तो दयालुभिः | गुरुभिः प्रतिबोध्यन्ते सिद्धान्तागमदायिभिः || २१३ || कथं बोध्यन्ते ? अत आह- यद्यद्वयेयं संवित्तिः प्रमाणैर्व्यावहारिकैः | साध्येत तैरेव दृढं तस्याः स्यात् सद्वितीयता || २१४ || यदि संविदैक्यं लोकस्य व्यवहारसिद्धैः प्रमाणैर्भवद्भिः साध्यते, ततस्तैरेव सत्यभूतैरद्वैतहानिः | अथ तान्यप्यसत्यानीष्यन्ते, निष्प्रमाणकत्वादद्वैतासिद्धिरिति भावः || २१४ || एतदेव प्रपञ्चयितुमनुमानस्वरूपमाह- प्रसिद्धाः पृथगेवालं धर्मिदृष्टान्तहेतवः | अप्रसिद्धस्य धर्मस्य सिद्ध्यै व्याप्त्युपबृंहिताः || २१५ || दृष्टान्तभूते हि महानसे धूमाग्न्योर्व्याप्तिमविनाभावसम्बन्धं गृहीत्वाऽथ साध्यधर्मिणि पर्वतादौ धूमवत्त्वेन हेतुना प्रसिद्धो वह्निमत्त्वरूपधर्मोऽनुमीयते | ततः पृथगेव भेदेन धर्म्यादयः सिद्धा अभ्युपगन्तव्याः || २१५ || तथा हि- न सिद्धः साध्यते धर्मो नासिद्धैरपि तैस्तथा | सिद्ध्यसिद्धी च संभूय नैकत्र स्थातुमर्हतः || २१६ || नहि सिद्धस्य साधकान्तरापेक्षा, नाप्यसिद्धा हेत्वादयः सिद्धं साधयन्ति || २१६ || अतश्च- सपक्षपक्षयोर्भेदे प्रमाणमनुमा भवेत् | ऐक्ये हि न तयोर्हेतुसाधर्म्य यस्मात् पक्षसपक्षयोरैक्ये हेतुसाधर्म्यं दृष्टान्तसिद्धधूमवत्त्वाख्यहेतुना साध्यधर्मिणि धूमवत्त्वस्य साधर्म्यं न भवति, तस्मात् तयोरैक्ये नानुमानात् साध्यसिद्धिः || २१७ || दृष्टान्ताभावे तु व्याप्तिग्रहणमपि न संभवतीत्याह- तदभावतः || २१७ || कस्य केन कथं व्याप्तिः इत्थं सत्यद्वैतसिद्ध्यर्थमनुमानाङ्गीकारे भेदोऽवश्यं भावीत्याह- इत्यद्वैतप्रसिद्धये | प्रयुक्तो भेदमाख्याति प्रयोगः स्वाङ्गसिद्धये || २१८ || स्वाङ्गस्य हेत्वादेः सिद्ध्यर्थमित्यर्थः || २१८ || किञ्च, संविदेकैवेति संविद्विषयभेदनिषेधे जषविषयो भेदो न निषिद्ध्यत इत्याह- अद्वयेति निषेधोऽपि चितिं युज्येत तन्मते | द्वैतभावस्ततोऽन्यत्र सिद्ध्येत् सिद्धावपि ध्रुवम् || २१९ || प्रतिज्ञा भज्यते तेषामाशामात्रविजृम्भिता | आगमप्रामाण्यस्वीकारेऽप्यद्वैतहानिरित्याह- आगमोऽपि तदैस्तैस्तैः स्मारितार्थविशेषतः || २२० || पदार्थजातं संसर्गविशिष्टं कथयेत् कथम् | यद्यद्वयेयं संवित्तिः स्वेन स्यादभिधित्सिता || २२१ || यदि स्वेनागमेनाद्वया संवित्तिरभिधित्सिता स्यात्, कथमसौ जातिगुणक्रियाद्रव्यवाचिभिर्गौरियं श्वेता गच्छति ग्राममित्यादिभिः पदैः स्मारितार्थविशेषा पदार्थजातसंसर्गरूपां विशिष्टां बुद्धिं जनयेत् | एतदुक्तं भवति- आगमस्य सत्यभूतस्य प्रमाणतयाऽभ्युपगमे तेन तदवयवैस्तदर्थैश्च द्रव्यादिभिः सत्यैश्च भाव्यम्, अतोऽयमेवाद्वैतविरोध इति || २२०-२२१ || अतश्च- आगमः कथमद्वैतमनुमानं च साधयेत् | निवार्यमाणमङ्गैः स्वैरद्वैतक्षपणक्षमैः || २२२ || इदानीं चिच्छक्तिरेकैव खल्वित्यादीनामद्वैतश्रुतीनां प्रमाणान्तरविरोधान्मुख्यार्थासम्भवं दर्शयितुमाह- किञ्च शब्दाः परित्यज्य मुख्यमर्थं विरोधतः | वर्तमाना हि दृश्यन्ते गौणेऽर्थे लोकवेदयोः || २२३ || गौर्ब्राह्मणोऽयमदित्यो यूप इत्येवमादयः | अनुमानस्य त्वविनाभावसम्बन्धलक्षणे व्याप्तिग्रहणे सति प्रमाणत्वेनार्थसाधकत्वमनिवार्यमेवेत्याह- नैवं हेतुरदुष्टायां व्याप्तौ साध्यं न साधयेत् || २२४ || अतश्च भेदसाधकैरनुमानैर्बाधितत्वादेकत्वश्रुतयः संविदो नित्यत्वव्यापकत्वादिसादृश्यस्तोत्रपरा इत्याह- अतो हेतुबलाक्रान्ताः श्रुतयो द्वैतमात्मनाम् | मुख्यमप्यपहायार्थं नुतिं कुर्वन्ति संविदः || २२५ || किञ्च- प्रत्यक्षमपि गृह्णाति वस्तुनो निर्विकल्पकम् | भेदं परेभ्यो व्यावृत्तिरूपं योनोपजायते || २२६ || जायमानेन नामादिविशेषस्मृतिपूर्वकम् | सविकल्पमसन्दिग्धं व्यभिचारविवर्जितम् || २२७ || प्रत्यक्षसंज्ञं विज्ञानम् अत्र हि नामप्रमाणादिविशेषस्मरणपूर्वकमुत्पद्यमानं सविकल्पकमपि ज्ञानमसंदिग्धत्वादबाधितत्वाच्च प्रत्यक्षतया प्रमाणमेवेष्यते | यदाहुः- ततः परं पुनर्वस्तु धर्मैर्जात्यादिभिर्यया | बुद्ध्याऽवसीयते साऽपि प्रत्यक्षत्वेन सम्मता || (श्लो० वा० प्रत्यक्ष० १२०) इति | ततस्तादृशं प्रत्यक्षज्ञानं येन जायमानेनोत्पद्यते, तदपि निर्विकल्पकं ज्ञानं वस्तुनः परेभ्यो व्यावृत्तरूपं भेदं गृह्णात्येव, कार्यस्य कारणगुणान्वयात्, सत्कार्यवादाभ्युपगमाच्च || २२६-२२७ || तस्य तु भेदग्राहित्वानभ्युपगमे तदुत्तरकालं सविकल्पकज्ञानं नोत्पद्यत इत्याह- अन्यथा नोपपद्यते | अगृहीतार्थभेदस्य तन्नामादिविशेषवत् || २२८ || ननु भेदस्येतरेतराभावग्रहणपूर्वकत्वाद् भावविषयेण प्रत्यक्षेण ग्रहणं नोपपद्यत इत्युक्तम्, तदयुक्तम्, सिद्धे हि भेदेऽसावितरेतराभावः | अन्यथा पयोऽर्थी पावकमनुधावेदिति सर्व(मस)मञ्जसम् || २२८ || अनुमानस्य साफल्यमपि भेदग्रहे सति | व्याप्तिग्रहणसंबन्धे व्याप्तिविज्ञानार्थं भेदग्रहणस्यावश्यंभावात् तत्सद्भाव एवानुमानप्रवृत्तिरित्यर्थः || वस्तुसामान्यमात्रग्रहणे तु तस्य प्रागेव सिद्धत्वाद् धर्मिविशेषणस्य धर्मविशेषसाधनार्थमनुमानं न प्रर्वतत इत्याह- सामान्ये सिद्धसाधनात् || २२९ || अन्यथा भेदसिद्धिमाह- अपि चान्यत्वमद्वैतभेदयोरभ्युपैति चेत् | भेदः सिद्ध्येदथानन्यभाव एवं च साध्यते || २३० || अद्वैतस्य द्वैतान्यस्याभ्युपगमे द्वैताद्वैतात्मकस्य वस्तुद्वयस्यासिद्धिः | अथाद्वैतभेदयोर्द्वैताद्वैतात्मकस्य वस्तुद्वयस्याप्येकत्वमिष्यते, यद्येवं भेदस्यैवाद्वैतसंज्ञा भवद्भिरुच्यत इति न वो नाम्नि विवादः | यतोऽस्माभिरप्येवं भेद एव साध्यते || २३० || नन्वेकस्यां रज्जौ सर्पादिभ्रमवदेकस्यामेव संविदि सत्यभूतायामसत्यभूतो वस्तुभेदप्रतिभास इत्युक्तम् ? अत आह- नहि दृष्टान्तमात्रेण साध्यसिद्धिर्भवेदतः | रज्जूदाहरणं शिष्यसम्मोहायैव केवलम् || २३१ || केवलस्य दृष्तान्तस्य हेत्वादिभिर्विनाऽर्थसाधकत्वाभावाद् दृष्टान्तमात्रस्य सत्यत्वेऽप्यद्वैतविरोधात् तदसत्यत्वे दार्ष्टान्तिकभूतायाः संविदोऽप्यसत्यत्वप्रसङ्गाद् रज्जूदाहरणमनर्थकमेवेत्यर्थः || २३१ || किञ्च- नापि संवित्समा रज्जोर्विशेषानुपलब्धितः | विवर्तमाना तैर्भावैर्ज्ञानमात्रनिवर्तकैः || २३२ || रज्ज्वादौ हि सर्पादिभ्रमाः सम्यग्ज्ञानोदयान्निवर्तन्ते | ततो बाधितत्वात् सर्पाद्यवभासस्तिमिरादिदोषकृतोऽसत्य एव | घटपटाद्यर्थप्रकाशस्य तु कालान्तरदेशान्तरयोरपि विशेषादर्शनाज्ज्ञानमात्रव्यतिरेकेण भासमानैरबाधितत्वादेव सत्यभूतैस्तैस्तैर्घटपटादिभावैरुपाधिभूतैः सह विवर्तमाना स्वयमपि भिन्नेव भासमानाऽऽत्मसंविन्न रज्जुसाम्यं भजते | एतदुक्तं भवति- घटपटादिबाह्यार्थभेदः सत्य एव, आत्मसंविदस्तु तत्तदर्थसन्निधौ तत्तदाकारारोपो बुद्ध्यध्यवसायभेद उपाधिकृत इति | एतच्चोत्तरत्र प्रपञ्चयिष्यते | अतश्च तत्तदर्थसन्निधौ जायमानस्य तत्तदाकारस्य बौद्धस्याध्यवसायात्मनो ज्ञानस्यासकृद्भेदेऽपि तत्तदध्यवसातृरूपायाः सर्वदैकरूपेण भासमानाया ग्राहकसंविदो न रूपान्तरपरावृत्तिः, अपि तु नित्यत्वमेव, चेतनत्वेनाविकारित्वात् | ततश्चात्मसंविदो नैका एव, एकत्वे भोगसाम्यविमोक्षादिदोषप्रसङ्गादित्युक्तमस्माभिरन्यत्र || २३२ || अस्याश्चात्मसंविदो बौद्धाध्यवसायाविवेकादनेकरूपताभ्रमो मलहेतुक एव पश्वात्मनामित्याह- सा तु संविदविज्ञाता तैस्तैर्भावैर्विवर्तते | मलोपरुद्धदृक्शक्तेर्नरस्येवोडुराट् पशोः || २३३ || यथा तिमिररुद्धचक्षुष एकोऽपीन्दुरनेक इव प्रतिभाति, एवं मलरुद्धज्ञानशक्तेरेकैव चेतनात्मिका संविदनेकरूपेव विवर्तत इति || २३३ || यथा च प्रमाणान्तरसिद्धैक्यस्यापीन्दोरनेकत्वप्रत्ययस्तिमिर-हेतुकः, एवं शास्त्रादिसिद्धैक्यस्य गृहीतृरूपस्य ज्ञानस्यानेकाकारता-भ्रमः स्वकारणं मलं गमयतीत्याह- यथा तैमिरिको हेतुसहस्रेणापि तर्कयन् | एकमिन्दुमनेकांस्तान् भूयोभूयः समीक्षते || २३४ || यथा वा पित्तसंदुष्टरसनः स्वादु तर्कयन् | अपि तिक्तं विजानाति पयः करणदोषतः || २३५ || यथा वाञ्जनसंयुक्ते क्वथ्यमाने च वारिणि | विदुषामपि नीलोष्णप्रत्ययावविवेकतः || २३६ || तथा परीक्षिता सम्यगागमैः सोपपत्तिकैः | विवर्तमाना जातेति नष्टेति विविधेति च || २३७ || ज्ञानानिवृत्तिं गमयेत् कारणं तिमिरादिवत् | स च मलो द्रव्यत्वाच्चक्षुषः पटलादिरिव न ज्ञानमात्रान्निवर्तते, अपि तु चक्षुषो वैद्यव्यापारेण पटलादिरिवेश्वरव्यापारेण दीक्षाख्येनैव निवर्तत इत्याह- तच्छिवप्रणिधानेन शिवशास्त्रोदितेन च || २३८ || कर्मणैव निवर्त्येत नान्यथा ज्ञानकोटिभिः | तिमिरादिर्यथारोग्यशास्त्रोक्तेनैव कर्मणा || २३९ || तन्मलं शिवध्यानेनाङ्गभूतेन सहकृतया शिवशास्त्रोक्तया दीक्षाख्यया क्रिययैव निवर्तते | यदुक्तं श्रीमत्स्वायंभुवे- दीक्षैव मोचयत्यूर्ध्वं शैवं धाम नयत्यपि इति | अत्र प्रयोगः- मलो ज्ञानानिवर्त्यो भवति, आत्मकरणाच्छादकत्वात्, तिमिरवत् | परमार्थो मलः, मलिनीकरणार्थक्रियाकारित्वात्, यथा काचतिमिरात्मको मलो भ्रमोत्पादकः || २३८-२३९ || इत्थं ग्राहकसंविदो नित्यत्वप्रसङ्गान्मलं तन्निवृत्तिहेतुं चोक्त्वा ग्राह्यस्य प्रपञ्चस्य भेदो वास्तव इत्याह- देशकालनरान्यत्वेऽप्यन्यथानवभासितः | अबाधितः प्रमाणैश्च विवर्तः स्यात् कथं चितेः || २४० || प्रपञ्चः किञ्च मायेयः प्रमाणैरेव साधितः | संविदस्त्वनेकाकारता भ्रान्त्यैवेत्युक्तम्, इत्याह- तस्माद् विवर्तते संविदणूनामेव बन्धनात् || २४१ || एतदेव प्रपञ्चयति- विवर्तः खलु चिच्छक्तेर्मिथ्यापरिणतिर्यया | अतद्रूपापि तद्रूपरूपिणीवाऽनुभूयते || २४२ || स च विवर्तो बुद्ध्यविवेकादात्मनां भवतीत्याह- स परस्परसंबद्धश्चिदचिद्गोचरस्तयोः | अन्योन्याध्याससाध्यत्वादविवेककृतोदयः || २४३ || एतदेव व्याचष्टे- तत्र चित् स्वाभिसम्बन्धबुद्धितत्त्वाविवेकतः | आरोप्यात्मनि तद्वृत्तिविकारानविकारिणी || २४४ || जन्मादीननु जातेति नष्टेति विविधेति च | ससुखेति सदुःखेति स्वात्मानं दर्शयत्यणोः || २४५ || तद्वज्जडं च चैतन्यमारोप्यात्मनि चिद्गुणम् | अविवेकेन जानाति बालोऽहं कृश इत्यतः || २४६ || सर्वेषामविकोऽयमणूनां मलहेतुकः | भ्रान्तिप्रधानसन्तानकन्दश्चिज्जडवस्तुनोः || २४७ || य एषोऽनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मप्रतिपत्तिरूपः पुंसामविवेकः, स न निर्हेतुकः, मुक्तस्याऽपि प्रसङ्गात् | अतस्तस्य केनापि कारणेनाऽनादिना भवितव्यम् | अविवेकस्यानादिसिद्धत्वाद् यस्तस्य हेतुः, स मल इति भावः || २४४-२४७ || अत्रैव हेतुमाह- नहि संविद्विशेषाणां विशिष्टैर्जडवस्तुभिः | विवर्तभेदा युज्येरन्नन्तरा दृढबन्धनम् || २४८ || इदं चात्राकूतम्- मलावृतत्वादेवात्मनां कलादिद्वारेणैव ज्ञानाद्यभिव्यक्तिः | सा च मायाया मोहकत्वादनात्मादावात्माभिमानरूपेति || २४८ || बन्धहेतुत्वमेव प्रपञ्चयति- तथा हि देहेऽहंबुद्धिर्न लोष्टे साऽपि कस्यचित् | अणोरेव न सर्वेषामतो बन्धस्तयोर्मतः || २४९ || तयोश्चिज्जडयोरन्योन्यगुणाध्यासे बन्ध एव नियामक इति शेषः || २४९ || किञ्च- यानि यस्येन्द्रियाण्यासन् नरस्य ज्ञानकर्मणोः | न तानि पुनरन्यस्य करणानि तयोस्तथा || २५० || विशिष्टैव विवर्ताय चिद्विशेषस्य वार्यते | बुद्धिर्न सर्वा सर्वेषां तेन बन्धस्तयोर्मतः || २५१ || बुद्ध्यारूढं सुखं दुःखं किञ्चित् केनचिदेव यत् | पुंसोपभुज्यते तेन तयोर्बन्धो नियामकः || २५२ || अयमर्थः- आत्मनां हि संसारावस्थायां सर्वविषयस्य ज्ञानादेः स्वरूपत्वेन शास्त्रेषु श्रूयमाणस्यादर्शनात् तदावारकेण तावन्मलेन भाव्यम् | तेषां च किञ्चिज्ज्ञत्वदर्शनात् कलादिद्वारेण तज्जनकेन मोहहेतुत्वाद् विपरीतप्रतिपत्तिहेतुना मायाख्येन बन्धेन भाव्यम् | भोगस्य सुखदुःखादेर्भोगसाधनानां च शरीरेन्द्रियाणां प्रत्यात्मनियतत्वेन विचित्रत्वाद् वैचित्र्यकारणं कर्माप्यवश्यमभ्युपेयमिति || २५०-२५२ || अत्र सांख्यच्छायया विवेक एवात्र नियामकोऽस्तु, किं मलाख्येनाप्रसिद्धेन बन्धेन पुरुषस्य कल्पितेनेति चोदयति- अविवेको नियन्ता चेत् परिहरति- स तयोरेव किंकृतः | तयोर्बुद्धिसंविदोरन्योन्याविवेकः केन कृतः | निर्हेतुकत्वे मुक्तस्यापि भवेत् || ततस्तत्कारणतयाऽनाद्यावारको मलोऽभ्युपगन्तव्यः, यदभावे मुक्तस्य न पुनरविवेको भवति, तत एव च बन्धविमोचकस्येश्वरस्यापि सिद्धिरुक्तेत्याह- तेन बन्धोऽस्ति बन्धश्च पृथगेवेशितुर्मतः || २५३ || अतश्च- बन्धवर्ती विमूढात्मा मोक्षस्तद्बन्धमोचनम् | गलिते सर्वथा बन्धे विमुक्ते चाणवे मले || २५४ || सर्वार्थद्योतिका शक्तिः शिवस्यैव विजृम्भते | बन्धमोक्षश्च शिवप्रसादादेवेत्युक्तम् || २५४ || सर्वावरणनिर्मुक्ता शक्तिरेषा महीयसी || २५५ || अल्पीयांसं समावृत्य विषयं सा तु दर्शयेत् | कथं दर्शयतीत्यत्राह- परसंवित्स्वरूपायाः शक्तेरसति बन्धने || २५६ || परमात्रं प्रकाशेत मुक्ताणूनामनारतम् | मलरहितत्वेन स्वपरप्रकाशिकाया मुक्तात्मसंविदः परमात्रं परस्य वस्तुनः सत्तामात्रं प्रकाशते, न तु बद्धात्मवदस्य विशेषेन भोग्यतया प्रकाशत इत्यर्थः, तथात्वे मुक्तस्याऽपि सुखदुःखादिसंवेदनेन भोक्तृत्वप्रसङ्गात् || २५६ || अतो विमुक्ताः सर्वज्ञा न तु चिन्मात्रवेदिनः || २५७ || न तु स्वसंवेदनमात्रनिष्ठाः, अपि तु शिववत् सर्वज्ञा एवेति || २५७ || ततश्च- सति बाह्ये तदज्ञानं वस्तुनि स्यात् तमःकृतम् | बाह्ये च वस्तुनि सत्यपि यदेतद्विषयाज्ञानमात्रं बद्धात्मनां दृश्यते, तन्मलकृतमेव | ततश्च असर्वज्ञा न मुक्ता इत्याह- तमसाच्छाद्यमाना हि न ते मुक्ता भवन्ति च || २५८ || शब्दानुवेधापेक्षित्वं च सविकल्पकज्ञानस्य बन्धहेतुकमित्याह- विकल्पो बिन्दुसंक्षोभाच्छब्दवेधेन संविदाम् | जायते मलरुद्धानामणूनामर्थदर्शने || २५९ || निर्मलानामसंक्षोभाद् बिन्दोस्तद्बन्धमोक्षजा | निर्विकल्पार्थसंवित्तिस्तदहर्जातबालवत् || २६० || मुक्तानां तु मायेयबैन्दवपाशोत्तीर्णत्वाच्छब्दानुवेधसहकृतं बौद्धं सविकल्पकं ज्ञानं न भवेत्, किन्तु चिच्छक्तिरेवान्यानपेक्षिणी ग्राह्यं वस्तु विषयीकरोति | तदहर्जातबालवदिति च शब्दादिविकल्परहितत्वमात्रे दृष्टान्तो ज्ञेयः || २५९-२६० || वस्तुनो बालस्यापि मलावृतत्वेन वस्तूनां यथास्वरूपानवबोधात्, मुक्तानां तु मलरहितत्वात् तच्छक्तिः समस्तं वस्तु यथावस्थितमेव गृह्णातीत्याह- यो यदा वर्तते भावो भूतो भावि च तत् तदा | यथार्थस्थितिं गृह्णाति स्वसंवेद्या चिदव्यया || २६१ || तदुक्तं मोक्षकारिकासु- शिवार्कशक्तिदीधित्या समर्थीकृतचिद्दृशा | शिवं शक्त्यादिभिः सार्धं पश्यत्यात्मा गतावृतिः || (श्लो० १११) इति || २६१ || नैषां च सर्वज्ञत्वसर्वकर्तृत्वसंभवेऽपि प्रवृत्तिरित्याह- न ते विश्वस्य कर्तारः कर्ताऽस्य शिव एव यत् | कुत इत्यत्राह- नहि कर्तृबहुत्वस्य गमकं विद्यते क्वचित् || २६२ || नहि रथादीनामप्यनेकर्तृकाणामेकस्थपतीच्छानुवर्तनं विनोत्पत्तिर्दृष्टा | यदुक्तम्- बहवो यत्र नेतारः सर्वे पण्डितमानिनः | सर्वे महत्त्वमिच्छन्ति तद्व्यक्तमवसीदति || इति | अनेन प्रवाहेश्वरपक्षोऽपि निरस्तः, ऐश्वर्यस्य स्वरूपव्यक्तिलाभात्म-कत्वेन विनाशयोगात् | ततस्तेन नित्यमुक्तेन शिवेनैव कार्यस्य निर्वर्त्यमानत्वाद् रागद्वेषादिरहितत्वाच्च न प्रवर्तन्ते || २६२ || एतदेव दर्शयति- नित्यमुक्तोदिताचिन्त्यप्रभावा शक्तिसंज्ञिता | संविदाश्रयते शश्वच्छिवं परमकारणम् || २६३ || स तया जडमाक्रम्य सृजत्यवति हन्ति च | तिरोदधाति भगवाननुगृह्णाति चात्मनः || २६४ || अनेन शक्तिविचारोपसंहारेण तदाश्रयभूतस्य शिवस्य विचारोपक्षेपोऽपि कृतो वेदितव्यः | तथाहि जगतः सन्निवेशादिमत्त्वेन कार्यत्वात् तत्कर्तृतयाऽऽत्मनां च मलावृतत्वात् तन्मोक्षकर्तृत्वेन च शिवः सिद्ध एव | यदुक्तम्- विवादाध्यासितं विश्वं विश्ववित्कर्तृपूर्वकम् | कार्यत्वादावयोः सिद्धं कार्यं कुम्भादिकं यथा || इति | इदानीं तस्य कृत्यभेदादुपचारेण भेदमाह- कृत्येषु तेषु कर्ताऽसौ त्रिविधः पञ्चसूच्यते | कथमित्यत्राह- शक्तिमानाहितोद्योगः प्रवृत्तश्चेति देशिकैः || २६५ || एतदेव प्रपञ्चयति- तत्र शक्तो भवेदाद्यो निष्कलः शिवसंज्ञितः | तस्मिन् मुकुलितेवास्ते क्रियाख्या शक्तिरैश्वरी || २६६ || शक्तेरेकत्वादौपाधिको ज्ञानक्रियाभेद इति दर्शयितुं ज्ञानस्यापि क्रियारूपत्वाव्यभिचाराच्छक्तिः क्रियाशब्देनोक्ता | तस्याः सक्तेः सर्वव्यापारोपसंहारेण स्वरूपमात्रावस्थाने सति शिवः शक्तादिशब्दवाच्यो भवति | सैव तस्य परबिन्दुस्वरूपाधिष्ठातुर्लयावस्थोच्यते || २६६ || अथ भोगावस्थायामुद्युक्तादिशब्दवाच्योऽसावित्याह- सैवोन्मिषन्ती संप्राप्तबिन्दुगर्भभरालसा | पत्युराविष्करोत्युच्चैः परमानन्दसन्ततिम् || २६७ || सा च शक्तिरुद्योगेन बिन्दोः कार्यस्य प्रसवाभिमुख्यं कुर्वाणा यदा पत्युः परमानन्दसन्ततिं ज्ञानक्रियासमृद्धिं कार्योत्पादनेनाऽऽविष्करोति, तदा तस्य शिवस्य भोगः पालनात्मको भवतीति भावः | न तु शिवस्य परमानन्दः सुखातिशयो भोगश्च सुखसंवेदनरूपो व्याख्येयः, निर्मलत्वेन शिवस्योपाधिभूतयोस्तयोरसम्भवात् || २६७ || तदानीं चोद्युक्तया शक्त्या सहाऽयमुद्युक्तादिशब्दवाच्यः प्रकाशत इत्याह- स तया रमते नित्यं समुद्युक्तः सदाशिवः | पञ्चमन्त्रतनुः श्रीमान् देवः सकलनिष्कलः || २६८ || अतश्च कार्योपाधिभिन्ना ईशानादिपञ्चमन्त्रात्मिकाः शक्तय एव तनुकार्यं कुर्वाणाः शिवस्य तनुरुच्यन्ते, न तु पारमार्थिकेति भावः | तदुक्तं श्रीमन्मृगेन्द्रे- तद्वपुः पञ्चभिर्मन्त्रैः पञ्चकृत्योपयोगिभिः | ईशत्पुरुषाघोरवामाजैर्मस्तकादिकम् || (वि० ३|८-९) | ततो ध्यानार्थमेव तस्यागमेष्वाकारश्रवणमित्युक्तं श्रीमत्पौष्करे- साधकस्य तु लक्ष्यार्थं तस्य रूपमिदं स्मृतम् इति | अत्र च शिवशक्त्योर्लयादिभेदस्य बिन्द्ववस्थाभेदकृतत्वात् तस्य च शान्त्यतीतकलारूपस्य लयावस्थात्वेन श्रुतेः शान्त्यादिकलाचतुष्टयपरिणामरूपं भोगाधिष्ठानम् | तदधिष्ठानेन शिवस्यापि भोगः प्रोच्यत इत्युक्तं श्रीमन्मतङ्गे- चतुर्मूर्तिमयं शुभ्रं यत्तत्सकलनिष्कलम् | तस्मिन् भोगः समुद्दिष्टः पत्युर्विश्वस्य सर्वदा || (वि० ३|३४) इति | यद्येवं सदाशिवभुवनाधिष्ठान एव देवस्य सदाशिवत्वात् तस्यैव पञ्चमन्त्ररूपत्वात् कथमत्र भोगावस्थायां तत्कथनम्, निवृत्त्यादिभुवनेषु केवलं सद्योजातादिमन्त्राकारतया शिवस्य ध्येयत्वादेवमुक्तम् | पञ्चमन्त्रसमष्टिरूपा मूर्तिस्तस्याधिकारावस्थस्य प्रवृत्तस्य सदाशिवभुवन एवेति वक्ष्यति- स बिन्दोः (श्लो० २७९) इत्यादिना | एषोऽर्थश्च श्रीमन्मतङ्गे विस्तरेण दर्शित इति तत एवावधारयितव्यः || २६८ || इदानीं शक्तेर्मन्त्रत्वमाह- मननात् सर्वभावानां त्राणात् संसारसागरात् | मन्त्ररूपा हि तच्छक्तिर्मननत्राणधर्मिणी || २६९ || तदुक्तम्- मननं सर्ववेदित्वं त्राणं संसार्यनुग्रहः | मननत्राणधर्मित्वान्मन्त्र इत्यभिधीयते || इति | एषा च व्युत्पत्तिः शिवस्य शक्तेर्विद्येश्वरादीनां च समानैव, अतश्च वाचकशब्दानामुपचारेण मन्त्रशब्दप्रयोगः || २६९ || अस्याश्चौपाधिक एव भेद इत्याह- कार्यभेदादधिष्ठानवशादेकैव पञ्चधा | सा भाति बिन्दुशान्त्यादिपञ्चाधिष्ठेयगोचरा || २७० || बिन्दुशान्त्यादिभुवनाधिष्ठानादस्य ईशानादिभेद इत्युक्तं प्रागेव | एतदेव प्रपञ्चयति- बिन्दुः शान्तिः कला विद्या प्रतिष्ठा सनिवृत्तिका | भोगस्थानानि पञ्चैषां बिन्दुसंज्ञा शिवेरिता || २७१ || ननु शान्त्यादिभुवनचतुष्टयमेव भोगस्थानमित्युक्तम्, सत्यम्, शान्त्यतीतरूपस्य परबिन्दोर्लयावस्थारूपत्वेऽपि सृष्ट्यारम्भ एव तद्भुवनोत्पत्तेस्तदप्यत्र भोगस्थानतयेत्युक्तमित्यविरोधः || २७१ || अत एवासां बिन्दुकलानां कारणावस्थायां लयरूपत्वेन परबिन्दुसंज्ञेत्याह- कलानामविभागोऽयं पञ्चानां बिन्दुसंज्ञितः | तद्गोचरा परा मूर्तिरपरा कार्यगोचरा || २७२ || परा मूर्तिर्बिन्द्वधिष्ठात्री लयावस्था शक्तिः, कार्याधिष्ठात्री त्वपरा शिवस्य मूर्तिरित्यर्थः || २७२ || एवं च- या तस्य विमला शक्तिः शिवस्य समवायिनी | सैव मूर्तिः क्रियाभेदात् सादाख्या तनुरुच्यते || २७३ || समवेतशक्तिरेव बिन्दुपरिणामस्य निवृत्तिभुवनाधोवर्तिनः सदाशिवभुवनस्याधिष्ठानादधिकारं कुर्वाणोपचारेण तस्य सदाशिवाख्या तनुरुच्यत इत्यर्थः || २७३ || दीक्षादिना तत्तद्भुवनप्राप्तानां सत्य एव भेदः, तदधिष्ठात्र्योस्तु शिवशक्त्योः कार्यभेदाद् भेद इत्युक्तमित्याह- महामाया समाक्रान्ता शिवेन बलशालिना | भोगस्थाननिविष्टानां निर्मलानां शिवात्मनाम् || २७४ || तनुभोगेन्द्रियस्थानविज्ञानादि करोति यत् | तत्कार्यं सा क्रियाशक्तिरसावपि तथोच्यते || २७५ || शिवशक्तिक्षोभिता महामाया यद्यत् कार्यमुत्पादयति, तत्र तदधिष्ठात्र्योः शिवशक्त्योः कार्यभेदेन स्थानभेदेनोपचारात् तत्तत्संज्ञा भवति | यथा शान्तिभुवनाधिष्ठानेन तदुत्पादे च शक्तिरपि शान्तिसंज्ञा, शिवश्च शान्तसंज्ञः | इत्येवमन्यत्रापि द्रष्टव्यम् | तदुक्तं श्रीमन्मृगेन्द्रे- किन्तु यः पतिभेदोऽस्मिन् स शास्त्रे शक्तिभेदवत् | कृत्यभेदोपचारेण तद्भेदस्थानभेदतः || (वि० १३|१६४-१६५) इति || २७४-२७५ || एतदेव प्रपञ्चयति- सर्वज्ञानक्रियारूपा शक्तिरेका हि शूलिनः | इच्छाज्ञानक्रियाद्या यत्प्रभवाः कार्ययोनयः || २७६ || यत्प्रभवा यदीया इच्छाज्ञानाद्या अवस्थाः कार्ययोनयः, कार्योपाधिकृता इत्यर्थः || २७६ || इत्थं शक्तिरेव शिवस्य मूर्तिस्तत्कार्यविषयेत्युक्तम्, इदानीं भोगाधिकारतत्त्ववासिनामुक्तवद् बैन्दवान्येव शरीरादीनीत्याह- ईश्वराणां शिवानां च महामायामयास्तथा | देहेन्द्रियादयः शुद्धाः सुभगाः स्वधिकारकाः || २७७ || तत्कारिणी तु- सेयं क्रियात्मिका शक्तिः शिवस्याव्यभिचारिणी | तत्संबन्धाच्छिवोऽशेषकार्याणां हेतुरुच्यते || २७८ || अधिकारावस्थोच्यते- स बिन्दोरवतीर्याणुसदाशिवसमावृतः | पतिकृत्याधिकारेषु सदाशिवमहेश्वरान् || २७९ || सम्प्रेषयन्नशेषाध्वमूर्धनि भ्राजते प्रभुः | अवतारणं चात्रोद्योगावस्थापरित्यागेन प्रवृत्तत्वम्, प्रवृत्तिश्च संस्कार्य सदाशिवान् विद्येश्वरांश्च यथाक्रमं स्वभुवनभोगेष्वशुद्धाध्वाधिकारे च नियोजनम् | अत एव प्रभवनशीलोऽशेषाध्वाधिष्ठाता भ्राजते सदाशिवाकारेण ध्येयतां प्राप्नोतीत्यर्थः || २७९ || तदेव ध्येयाकाराधिष्ठानं दर्शयति- पञ्चस्रोतोमुखः शान्तः प्रभुः शक्तिशिराः शिवः || २८० || दृक्क्रियेच्छाविशालाक्षो विज्ञानेन्दुकलान्वितः | ईशानमूर्धा पुंवक्त्रो दशदिग्बाहुमण्डलः || २८१ || अघोरहृदयो वामगुह्यो जाततनूज्ज्वलः | प्रवृत्तिमानयं देवः सकलः सर्वपावनः || २८२ || अत्र च पञ्चस्रोतश्शब्देन मननत्राणरूपायाः शक्तेः पञ्चावस्थाभेदा उच्यन्ते || २८०-२८२ || इत्थं विन्द्ववस्थाधिष्ठानभेदेऽपि शिवशक्त्योरेकत्वं प्रदर्श्योपसंहरति- एक एव शिवस्तद्वच्छक्तिरप्यविकारिणी | लयभोगाधिकारेषु तौ हि चिन्मात्ररूपिणौ || २८३ || इदानीमनेकत्वमेवौपचारिकमेतयोः प्रकारान्तरेण दर्शयितुं तत्तदवस्थाभाजामात्मनां वास्तवं भेदमाह- तथाहि विमलोदारगभीरे चिन्महोदधौ | स्वात्मनि प्रविलीयन्ते तेनैके समधिष्ठिताः || २८४ || परिणतमलाः केचिदात्मानस्तेन शिवेनानुग्राहकेण समधिष्ठिता अनुग्रहशक्त्या मोचिताः सन्तो विमलतरनिरतिशयसर्वज्ञत्वसर्वकर्तृत्वसमुद्ररूपे स्वात्मनि स्वरूपे लीयन्ते तिष्ठन्ति, तदनुग्रहात् तत्साम्यरूपं मोक्षं भजन्तीत्यर्थः | न तु शिवात्मन्यैक्यं ते प्रयान्तीति व्याख्येयम्, अद्वैतस्य प्रागेव निषेधात् | एते च लयावस्थशिवसमत्वाल्लयावस्थाभाज उच्यन्ते || २८४ || विज्ञानकेवलिनोऽप्यपरिणतमलमायोत्तीर्णत्वान्महामाया-श्रितत्वाद्भोगहीनत्वाच्च लयावस्थाभाजो निर्व्यापारत्वादुच्यन्त इत्याह- शिवेन निभृतात्मीयशक्तयोऽन्ये विशेरते | भोगावस्थाभाज आह- समालिङ्ग्य महामायामपरे वृत्तिशालिनीम् || २८५ || तत्संपर्कसुखैकाग्रबुद्धयो भोगलम्पटाः | शान्त्यादिभुवनरूपेण परिणतां महामायामाश्रित्य वर्तन्त इत्यर्थः || २८५ || अधिकारभाजोऽप्याह- तथा परे परव्योम समाश्रित्याध्वमूर्धनि || २८६ || कुर्वन्ति पञ्चकृत्यानि पत्युराज्ञानुवर्तिनः | अनन्तादयः शुद्धाध्वमूर्धनि परव्योममहामायाभुवनान्याश्रित्य शिवाज्ञया पञ्चकृत्यकारिणो भवन्तीत्युक्तम् || २८६ || ततः स तेषामेकोऽपि लयभोगाधिकारिणाम् || २८७ || अधिष्ठातृतया भेदमौपचारिकमृच्छति | तद्वदेव मता शक्तिस्तयोर्भेदोऽधुनोच्यते || २८८ || तयोः शिवशक्त्योः परस्परभेदः कथ्यते || २८७-२८८ || तमेव भेदमाह- शुद्धेऽध्वनि शिवः कर्ता कारणं शक्तिराश्रिता | समाश्रयः स विज्ञेयः स्वनिष्ठघनचिन्मयः || २८९ || धर्मधर्मितयैवानयोर्भेदः || २८९ || तत्र च धर्मिस्वरूपं ज्ञानं स्वनिष्ठमेव, विषयग्रहणसामर्थ्यरूपं तु धर्मतयोच्यत इत्याह- सा तु संविदशेषार्थग्रहणे लम्पटोदया | परमैश्वर्यरूपा च महिमा व्याप्तिरूपिणी || २९० || ततश्च- महेश्वरो महानेष सर्वार्थव्यापकस्तयोः | सर्वविषयव्यापकसामर्थ्ययुक्तत्वाच्छिवः सर्वार्थव्यापकः | उक्तार्थमेव प्रकटयति- तयोरिति || २९० || परानपेक्षं रूपं यद्विज्ञानं शिवसंज्ञितम् || २९१ || तस्य शक्तिं परापेक्षं रूपमाहुर्विपश्चितः | परापेक्षं विषयापेक्षमित्यर्थः || २९१ || कुत एवं कल्प्यत इति चेदत आह- आकारद्वयसंवित्तिरशेषस्यापि वस्तुनः || २९२ || परापेक्षानपेक्षाभ्यामस्ति शक्तिः शिवाश्रया | जडविषये दाहकस्याग्नेर्दाह्यस्य सन्निधौ दहनसामर्थ्यदर्शनात्, अन्यथा तदनभिव्यक्तेः, चिद्विषये च आत्मनि विषयग्रहणरूपस्य स्वनिष्ठस्य ग्रहीतृस्वरूपस्य स्वसंवेदनसिद्धत्वादेतत् सिद्धमित्यर्थः | अतश्चास्ति शक्तिरिति || २९२ || यद्येवमात्मशक्तेरस्याः शिवशक्तेः को विशेषोऽत आह- नित्योदितानवच्छिन्नविभूतेरीश्वरस्य यत् || २९३ || ज्ञेयाधिष्ठेयकार्यादौ न तु हेत्वादिकं परम् | तेन शक्तिः परापेक्षं रूपमीशस्य युज्यते || २९४ || नित्यमुक्त्वादीश्वरस्य ज्ञेयादिविषये शक्तिव्यतिरेकेण न बुद्ध्यादिकरणापेक्षा, आलोकादिसहकार्यपेक्षा च | अतः शक्तिरेव तस्य परापेक्षारूपं नान्यत् | बद्धात्मनां तु शक्त्याख्यं विषयापेक्षं स्वरूपमात्रमेवासौ कार्यादिहेतुर्न भवेत्, तेषां कार्यादौ करणाद्यपेक्षादर्शनादित्याह- न सर्वस्य परापेक्षं रूपमात्रमसौ भवेत् | कार्यपुत्रादिरूपाणामन्यथैवोपलम्भनात् || २९५ || शिवस्येति पाठे केवलस्य शम्भोर्ज्ञानं न स्वरूपमात्रनिष्ठमेव, किन्तु विषयापेक्षमेव कार्यादिहेतुः | न तु बद्धात्मनां दृष्टकार्याणां पुत्रादीनां पित्रादेर्विषयादिसापेक्षेणैव ज्ञानादिनोत्पत्तिदर्शनादित्यर्थः || २९५ || अतो नेश्वरस्यापि निर्विषयं ग्रहणात्मकं ज्ञानं संभवतीत्याह- न तु निर्विषयं ज्ञानं तदेव विषयग्रहः | यद्येवं विषयसन्निधान एव ग्रहणरूपस्योत्पत्तिदर्शनाद् धर्मस्वरूपस्यानित्यत्वप्रसङ्गः ? तन्न, शिवस्य सर्वदा बिन्द्वादेर्नित्यस्य विषयस्य ग्राह्यत्वात्, ग्रहणसामर्थ्यस्य ग्रहीतृसमवेतत्वेन सर्वदाऽवस्थानाच्च | नन्वात्मनां नीलादिज्ञानविनाशेन पीतादिज्ञानस्य क्रमेणोत्पत्तिदर्शनात् तत्सामर्थ्यस्याप्यनित्यत्वं लक्ष्यते ? अत आह- विरोधेनाथ पर्यायान्नैवमप्यविनाशि यत् || २९६ || नश्वराणामयं धर्मो यः काले नान्यथोदयः | नीलाद्यध्यवसायरूपाद् भिन्नस्य पीताध्यवसायरूपस्य बौद्धस्य ज्ञानस्य विनाशित्वात् परस्परविरोधाच्च पर्यायेणोत्पत्तावपि तत्तत्सुखादिरूपबुद्धिग्रहणसामर्थ्यस्य सर्वदा ग्रहीतृसमवेतत्वेन संवेदनादविनाशित्वमेव, अतो बौद्धस्यैवायमन्यथा | परिणामः || २९६ || ततश्च- अविनाशि च तन्नित्यमिष्टमस्माद् विभिद्यते || २९७ || शक्तिराश्रयतः शम्भोः स च तस्यास्ततस्तथा | तदप्यात्मसामर्थ्यं शिवसामर्थ्यवन्नित्यमेष्टव्यम् | एवं च शिवशक्त्योरात्मभेदाभावेऽपि धर्मिधर्मभेदः सत्य एवेत्याह- अस्मादिति | ततस्तस्मात् कारणात् तथा धर्मात्मिकैव शक्तिरित्यर्थः || २९७ || अत्र पराशङ्का- कार्योपाधिवशाच्छक्तिसंज्ञा स्यादपि चिद्घने || २९८ || न तु शक्तिः परापेक्षा वस्तुतोऽस्तीति केचन | धर्मिरूपमेव परमार्थं न तु धर्मरूपमित्यर्थः || २९८ || अत्रोत्तरम्- करणेन विना कार्यं कुर्वन् कर्ता भवेदिति || २९९ || मतिरेषामयुक्तैव युक्तिप्रत्यक्षबाधिता | कुलालादीनां हि कर्तृणां करणेन विना कर्तृत्वादर्शनात् शिवस्याऽपि कर्तृत्वात् केनापि करणेन भवितव्यम् | तच्छक्त्यात्मकमेव | यदुक्तं श्रीमन्मृगेन्द्रे- करणं च न शक्त्यन्यत् (वि० ३|४) इति | एवमात्मनामपि देहस्पन्दादौ शक्तिरेव करणमित्युक्तम् || २९९ || किञ्च, ग्रहणरूपस्य परमार्थस्यानभ्युपगमे स्थितिकालेऽप्युपाधिभूतसदाशिवतत्त्वादिबिन्दुकार्यविषयीकरणा-भावादस्य सदाशिवादिभेदकल्पनमयुक्तम् | उपाध्यग्रहणेऽप्येतद्भेदोपचाराभ्युपगमे सर्वदैवाधिकारावस्था भवेत्, न तु लयावस्था, विशेषाभावादित्याह- किञ्चागृहीतमपि चेदुपाधिः कार्यमीशितुः || ३०० || सदोपहितभावेन निरुपाधिः कथं शिवः | बिन्द्वाद्यग्रहणे तत्क्षोभाद्यप्यस्य न युक्तम्, अज्ञातस्य करणासंभवाअदित्याह- कथं वायं भवेत् कर्ता कारणज्ञानवर्जितः || ३०१ || किञ्चाऽऽत्मनामपि शिवसमानगुणत्वाद्धर्मिरूपत्वाद्- धर्मरूपज्ञानानभ्युपगमे सुखादिसंवेदनरूपो भोगो न सम्भवतीत्याह- पुरुषो वा कथं बुद्धिं पश्येत् शक्त्या तया विना | एवं च सति- इदमन्धतमः कृत्स्नमन्तरा शक्तिदीपिकाम् || ३०२ || जायेतान्यच्च भगवानशक्तः किं करिष्यति | शक्त्यनभ्युपगमे भोगमोक्षार्थं सर्वप्रवृत्तिशून्यं जगद् भवेदित्यर्थः || ३०२ || ततश्च- अनन्यापि तथा शम्भोर्विभिन्ना शक्तिरिष्यते || ३०३ || यथा मसूरात्व(रस्त्व)ङ्गुष्ठान्नापि भिन्नोक्तहेतुभिः | यथा मसूराख्यो धान्यविशेषोऽङ्गुष्ठाख्यस्तज्जातीयोऽपि केनाप्याकारेण भिद्यते, एवं शिवशक्त्योर्वस्त्वन्तरत्वाभावेऽपि धर्मिधर्मतया भेदः सिद्धः | अत्र च समानजातीयत्वेनैक्यमभ्युपगम्य इत्थं दृष्टान्तत्वमुक्तम्, वस्तुतोऽङ्गुष्ठमसूरयोर्भेदात् | इत्थं शिवशक्त्योर्धर्मिधर्मतया भेदेऽपि तादात्म्यसंबन्धान्नात्मान्तरवद् भेद इत्याह- नापि भिन्नोक्तेति || ३०३ || इत्थं शक्तिशक्तिमतोरात्मान्तरत्वाभावेऽपि धर्मिधर्मतया भेदं प्रतिपाद्योपसंहरति- अनन्याऽपि विभिन्नाऽतः शम्भोः सा समवायिनी || ३०४ || स्वाभाविकी च तन्मूला प्रभा भानोरिवामला | ननु बिन्द्वाख्ययैव शक्त्या शिवः कार्यं करिष्यति, किमनया ? अत आह- नह्येष भगवान् शक्त्या स्वात्मनोऽत्यन्तभिन्नया || ३०५ || कदाचित् कुरुते किञ्चिन्नापि जानाति किञ्चन | बिन्दोरुपादानत्वेन बहिरङ्गत्वादचेतनत्वाच्च चिद्रूपया स्वसमवायिन्या शक्त्या विना शिवो न बिन्द्वादिवस्तु विषयीकर्तुं तत्क्षोभादि चोत्पादयितुं शक्नोति, कुम्भकारादेरपि चिच्छक्तियुक्तत्वेनैव दर्शनात् || ३०५ || यद्येवं शक्त्या विनेश्वरस्याप्यकिञ्चित्करत्वात् सैव जगत्कारणत्वेनास्तु | यदाहुः- यया विना न सर्वज्ञः सोऽपि तस्यै नमोऽस्तु ते इति, तन्न, शक्तेर्धर्मत्वेनाश्रयं विनाऽवस्थानासंभवात् | तदाश्रयः स एष शक्तिमान् सङ्कल्पमात्रेण विश्वकर्तेत्याह- अनाहितविशेषोऽपि हेतुर्देवो महेश्वरः || ३०६ || इदानीं कर्तृशक्त्या भेदोपचारे उपाधिभूतं पारमार्थिकं कार्यभेदमाह- कार्यभेदोऽपि कार्यस्य स्यादवस्थाविशेषतः | एतदेव प्रपञ्चयति- बिन्दुः प्रलीनकार्योऽसौ शिवशक्तिसमीरितः || ३०७ || सर्गाय स्थितये स्रष्टृप्रपञ्चविलयाय च | चिरस्थापितविश्वो हि बिन्दुरेव प्रवर्तते || ३०८ || अवस्थाभेदमासाद्य घटमारभते यथा | मृदवस्थान्तरापत्त्या पूर्वमेवमसावपि || ३०९ || प्रभुशक्तिसमाक्रान्तस्तत्तद्वृत्तिविशेषतः | कार्यभेदाय घटते निर्विकारेऽपि शूलिनि || ३१० || अनापन्नविकारोऽपि यथोक्तक्रमभाविनाम् | भेदसंशोषचूर्णानामवस्थाभेदजन्मनाम् || ३११ || विधाता कमलस्योष्णगभस्तिः स्यात् तथा शिवः | कर्ता सर्गादिकार्याणामविकारोऽपि शक्तिमान् || ३१२ || ननु किमर्थमसौ सृष्ट्यादिकार्यं करोतीति चेत्, पश्वनुग्रहायेति ब्रूमः | यद्येवं सर्वानुग्राहकत्वेऽपि शिवः कथं केषाञ्चिदेव मोक्षं करोति न सर्वेषाम्, अयमेवास्य स्वभावो वा तर्ह्यन्तः रागद्वेषयुक्तः स्यात् | अत आह- यथा मधूच्छिष्टमृदोरनपेक्षः क्षणेन च | द्रवताशुष्कताहेतुरविकारोऽपि भास्करः || ३१३ || तथा समासमात्मीयपुण्यापुण्याख्यकर्मणाम् | अणूनामविकारोऽपि बन्धमोक्षकरः शिवः || ३१४ || सत्यं सर्वानुग्राहकः शिवः | न चास्य रागादिर्विद्यते, अनादिमलरहितत्वात् | बन्धमोक्षकर्तृत्वं चात्मनामेव, योग्यत्वादित्युक्तम् | ततश्च यथैकाकार एवार्कः स्वसन्निधानेन द्रवत्वयोग्यस्य मधूच्छिष्टस्य द्रवतां शोषत्वयोग्याया मृदः शुष्कतां च करोति, तथा शिवोऽपि पक्वमलानां मोक्षयोग्यानां मोक्षं करोति, अपक्वमलानां बन्धयोग्यानां तत्पाकार्थं बन्धं करोतीत्यविरोधः | अतश्चात्र पुण्यापुण्याख्यशब्देन- न हृष्यत्युपकारेण नापकारेण कुप्यति | यः समः सर्वभूतेषु जीवन्मुक्तः स उच्यते || इति न्यायेनोपकारापकारात्मकं कर्मद्वयमुच्यते | तयोर्मलपरिपाकवशात् साम्यबुद्धौ सत्यां मोक्षो भवति, तदभावे तु बन्ध एव | न त्वश्चमेधब्रह्महत्यादि-रूपौ पुण्यापुण्यौ, तयोः साम्यं मोक्षहेतुरिति व्याख्येयम्, शास्त्रविरोधात्, तादृशस्य कर्मसाम्यस्य संसारावस्थायामपि संभवात्, स्वनाशमात्र एव चरितार्थत्वात् | समस्तकर्मसाम्यस्यापि विज्ञानकेवलित्वमात्र एव हेतुत्वात्, मोक्षहेतुत्वासम्भवात्, मलपरिपाकस्यैव प्रोक्तकर्मसाम्यचिह्नानुमेयस्य दीक्षाद्वारेण मोक्षहेतुत्वसम्भवाच्चेत्यादि विस्तरेणास्माभिरुक्तं मृगेन्द्रवृत्ति-दीपिकायाम् | साधितं च गुरुभिः श्रीमत्स्वायंभुवकिरणमतङ्-गादिवृत्तिष्विति ततोऽवधेयम् || ३१३-३१४ || अतश्च- परस्परविरोधेन निवारितविपाकयोः | कर्मणोः सन्निपातेन शैवी शक्तिः पतत्यणौ || ३१५ || विरुद्धफलयोरश्वमेधब्रह्महत्यादिधर्माधर्मरूपयोः स्वर्गब्रह्मलोकफलयोर्धर्मरूपयोरवीचीरौरवफलयोर्वाऽधर्म-रूपयोः कर्मणोः सन्निपाते सति शैवी शिवत्वदायिकाऽनुग्राहिका शक्तिरात्मनि न पतति, तस्या मलपरिपाक एव पातश्रवणात् | किन्तु रोधशक्तिरेव नियतिद्वारेण विरुद्धकर्मक्षयार्थं पतति | तदुक्तं श्रीमन्मतङ्गे- धर्माधर्मविपाकेऽस्मिन् (वि० १३|१५) इत्यादिना दीक्षाया एव मलपरिपाकाविनाभूतायाः कर्मक्षयद्वारेण मोक्षहेतुत्वम् | यदुक्तं श्रीमत्किरणे- अनेकभविकं कर्म दग्धबीजमिवाणुभिः | भविष्यदपि संरुद्धं येनेदं तद्धि भोगतः || (६|१९) इति | मलपरिपाके सत्यनुग्राहिकायाः पातः || ३१५ || तस्यां पतितमात्रायां निर्धूतघनसंवृतिः | प्रशान्तमलकालुष्यमात्मानमनुपश्यति || ३१६ || मलावरणापगमात् तद्विमुक्तं सर्वज्ञत्वादिरूपमस्य प्रकाशत इत्यर्थः || ३१६ || तदैव हि विमुक्तोऽसौ यदाघ्रातः शिवेच्छया | दीक्षाख्यया शिवशक्त्या स्पृष्टो मुक्त एवेति || दीक्षोत्तरकालं चारब्धकार्यबन्धक्षयार्थम्- नित्यनैमित्तिकेनैष कर्मणा वर्तते परम् || ३१७ || तत्रापि- अनेनैव शरीरेण परां व्याप्तिमखण्डिताम् | प्राप्नुवन्ति महाधीरा धन्या हि शिवयोगिनः || ३१८ || योगाभ्यासादत्रैव सर्वज्ञत्वादिः प्रकाशत इत्यर्थः || ३१८ || प्रसङ्गाच्छिवयोगिमाहात्म्यमाह- स पुनाति दृशा वाचा चरणेन करेण च | नदीजनपदोद्यानपुरादीनि स्वलीलया || ३१९ || किं पुनः शरणायातं भवभीतमिमं जनम् | इदानीं प्रकरणकर्ता स्वगुरुनमस्कारं करोति- नमस्तथाविधायास्मद्गुरवे शिवतेजसे || ३२० || निधये योगरत्नानामनन्तफलदायिनाम् | केनेदं प्रकरणमारचितमित्यत्राह- रामकण्ठकृतालोकनिर्मलीकृतचेतसा || ३२१ || रत्नत्रयपरीक्षेयं कृता श्रीकण्ठसूरिणा | श्रीरामकण्ठासद्वृत्तिं मयैवमनुकुर्वता | रत्नत्रयपरीक्षार्थः संक्षेपेण प्रकाशितः || ३२२ || || रत्नत्रयपरीक्षा समाप्ता || येनाकारि कवीश्वरेण रसवानाश्चर्यसाराह्वयः पाषण्डापजयश्च काव्यतिलको भक्तप्रकाशस्तथा | नाट्येष्वभ्युदयश्च सुन्दरगिरा शैवेषु सद्वृत्तय- स्तेनाघोरशिवेन साधु रचिता रत्नत्रयोल्लेखिनी || इत्यघोरशिवाचार्यविरचिता रत्नत्रयोल्लेखिनी सम्पूर्णा || ########### END OF FILE #######